________________
( ३१७ )
गिरिनद्यादीनाम् । २।३।६८
एषां नो ण् वा स्यात् । गिरिणदी। गिरिनदी । तुर्यमाणः । तुर्य -
मानः । ६८|
बहुवचनमाकृतिगणार्थम् । गिरिणीत षष्ठीसमासः । तूर्यमाण इति - तूर्यते रानशि श्ये मागमे च षुवर्गान्नो णः ०' ||३|६३॥ इति नित्यं प्राप्ते विकल्पः ॥६८॥
पानस्य भावकरणे । २।३।६९।
पूर्वपदस्थाद्रादेः परस्य भावकरणार्थस्य पानस्य नो णु वो स्यात् । क्षीरपाणं क्षीरपानं स्यात् । कषायपाणः । कषायपानः कंसः १६९।
73
क्षीरपाणमिति - पतिः पानम् । अनट' | ५|३ | १२४१ इति भावे - इनट ततः क्षीरस्य पानमिति षष्ठीसमासः । कषायपाण इति – कषायः । पयतेऽनेनेति 'करणाधारे' | ५ | ३ | १२९ । इति करणेनट । कंसः पात्र विशेष: ।. भाव करणे इति वचनात् पयतेऽस्मिन्निति पानः, क्षीरपानो घोष इत्यत्र न 'भवति ॥ ६९ ॥
देशे | २|३|७|
पूर्व पदस्थाद्रादेः परस्य देशविषयस्य पानस्य नो ण् नित्यं स्यात् । क्षीरपाणा उशीनराः । देशइति किम् । क्षीरपानाः गोदुहः
1
1७०
!