________________
(३१५)
वृतशब्दम्योपादानं नियमार्थम् नियमश्चैवं संज्ञायां कोटरा दभ्य एव वनशब्दस्य णत्वं नान्येभ्य इति । अत्र संज्ञासत्त्वेपि न णत्वम् । देवप्रियं दारू, तस्य: वनम्, कुबेरस्य वनम्, मनोहराः वृक्षविशेषाः तेषां वनम् संज्ञा एताः ॥ ६४ ॥
नसस्य |२|३|६५।
पूर्वपदस्थाद्रषूवर्णात् परस्य नसस्य नो ण् स्यात् । प्रणसः । ६५ ।
'उपसर्गात ।७।३।१६२ । इति विहितस्य नसादेशस्य नसेत्यनुकरणम् । प्रगता प्रवृद्धा वा नासिका यस्येति ' उपसर्गात्' ।७।३।१६२ | इति नसादेशः । अनाम्नि वचनमिदम् ||६५ ॥
निष्प्राऽग्रे ऽन्तः खदिर काश्यम् शरेक्ष प्लक्षपीयूक्षाभ्यो वनस्य |१२|३|६६ |
निरादिभ्यः परस्य दनस्य नो ण् स्यात् । निवर्णम् । प्रवणम् । अग्रवणम् । अन्तर्वणम् । खदिरवणम् । कार्यवणम् । आस्रवणम् । शरवणम् । इक्ष व्रणम् । प्लक्षवणम् । पीयूक्षावणम् । ६६ ।
,
बहुवचनं व्याप्त्यर्थं तेन संज्ञायामसंज्ञायां च भवति अन्यथा 'कोटरमिक सिधूक०' | ३|२|७६ । इत्यत्र कृतणत्ववनशब्दोपादानस्य नियमार्थत्वादत्र संज्ञायां न स्यात् । वनान्निष्क्रान्त निर्वणम्, प्रकृष्ट वनम् प्रवणम् प्रादिसमासावेतौ । वनस्याग्रम् वनस्यान्तः, 'पारेमध्ये ० | ३ | १|३०| इत्यव्ययीभावः तत्संनियोगे च आद्यस्यैकारान्तता सूत्रप ठबलात् निपात्यते । निष्प्राग्र े तसे नौषधिवचना न पिवृक्षविशेषा, एभ्यः सज्ञायां कोटरादिनियमेन व्यावर्तित . त्वादप्राप्तं णत्वविधानम् असंज्ञायामप्येकपदत्वाभावादप्राप्तमेव । इक्षु शर शब्दावौषधिवचनौ शेषा वृक्षवचनाः । उत्तर-सूत्र पि बहुवचनस्य व्याप्यर्थत्वात्संज्ञायां कोटरादिनियमस्य बाघे जाते उत्तरसूत्रेण विकल्पे प्राप्ते एवम