________________
(३०.)
अङप्रतिस्वनिस्तब्धे स्तम्भः ॥२॥३४१॥
उपसर्गानाम्यादेः परस्य स्तम्भस्सो द्वित्वेप्यस्यपि ष् स्यात् । न चेत् स्तम्भि.प्रतिस्तन्धनिस्तब्धयोश्च स्यात् । विष्टभ्नाति । वितष्टम्भ । प्रत्यष्टभ्नात् । डादिदर्जनं किम् । व्यतस्तम्भत् । प्रतिस्तब्धः । निस्तब्धः ॥४१॥
नचेदित्यादि- न चेदसौ ? विषये प्रतिस्तब्धनिस्तब्धयश्च विषययो: गदिति- अत्राश्रयः आधारमात्रं न तु अनन्यत्रभावलक्षणस्तद्विशेषस्त स्मन्निति । विष्टभ्नाती त्यादि-स्तम्भू गेधने' इति सौत्रात् 'स्तम्भूस्तुमभू०' ।३।४।७८। इति श्ना शिदवित्' ।४।३।२०। इति उद्वद्भाव त् . 'नो व्यञ्जनस्या ०।४।२।४५॥ इति नलोपश्च'। उपलक्षणत्वात् ष्टभृङ स्तम्भे ७८१ विष्टम्भते इत्याद्यपि ज्ञेयम् । ष्टभङ इत्यस्य लाक्षणिकत्वात न ग्रहणमित्यपरे । पागयणकारैस्तु अस्यापि षत्वं कृतमेवमुत्तरसूत्रेरि ज्ञेयम् । व्यतस्तम्भदिति । स्त-भूध तो: णिगि दिप्रत्यये णिश्रिद्र श्रु०' ।३। ४१५८। इति के द्वित्वा दो विषयत्वात्षत्व भावे च सिद्धम् । प्रतिस्तब्ध इत्यावि- प्रतिपूर्वान्निपूर्वाच्च स्तम्भूधातोः क्तप्रत्यये 'नो व्यञ्जनस्या.' ॥४॥२॥४५॥ इति मलापे 'अधश्चतुर्थात्तयोधः' ।२।११७९। इति तस्य धत्वे तृतीयस्तृतीय० ॥१॥३॥४९॥ इति भस्य तृतीयत्वे च सिद्धम् ॥४१॥
अवाच्वाश्रयोर्जा विदूरे ।२।३।४२॥ अवादुपसर्गात् परस्य स्तम्भः स आश्रयादिषु गम्यमानेषु द्वित्वेप्यटयपि ष् स्यात् । विषयश्चेत् स्तम्भिर्न स्यात् । आश्रय आलम्बनम् । दुर्गमवष्टभ्नाति । अवतष्टम्भ । अवाष्टभ्नाद्वा । ऊर्ज औजित्यम् । अहो वृषभस्यावष्टम्भः । अविदूरमासन्नमदूरासन्नं च अवष्टब्धा शरत् । अवष्टब्धा सेना। चोऽनुक्तसमुच्चये । तेन उपष्टम्भः । अङ इत्येव । अवातस्तम्भत् ॥४२॥
.