________________
(३०१ )
निध्ये दत्येतदर्थं अटयपीति सार्थकमेव ।। ३९ ।।
स्थासेनिसिधसिचसां द्वित्वेपि | २३ | ४०
उपसर्गस्थानाम्यादः परेषां स्थानां सः ष् स्यात् द्वित्वेप्यपि । अधीष्ठाष्यति । अधितष्ठौ । अध्यष्ठात् । अभिषेणयति । अभिविषेणयिषति । अभ्यषेणयत् । प्रतिषेधति । प्रतिषिषेधिपति । प्रत्यषेधत् । अभिविवति । अभिषिषिक्षति । अभ्यषिञ्चत् । अभिषजति अभिषषञ्ज, अभ्यषजत् |४०|
सेनया अभियातीति णिज्बहुलं | ३ |४| ४२ | इति णिचि त्र्यन्त्य स्वरादेः | ७|४|४३| इत्यन्त स्वग्लोपे अभिना योगे तिवादावनेन षत्वे च । अभिषेणयतीति- अभषेण वितुमिच्छतं ति अभिषिषेण षति अभ्यषेणयत्ह्यस्तनी दिव् । षिचींत् क्षरणे 'मुचादि तृफ-दृफ०' | ४|४|१९९ । इति नोऽन्ते 'नां धुवज्योपपन्ते । १ । ३ । ३९ । इति सकारे च । अभिषिञ्चतीति-अभिषेक्त मिच्छत ति सनि 'चजः कगम्' | २|११८६ | इति करवे 'नाम्यन्तस्था ० ' | २३ | १५ | इति सनः सस्य षत्वे द्वित्वेति वचनादनेन द्वयो- सकारयोः षत्वे च ॥ अभिषिषिक्षति - 'षञ्ज सङ्ग' दंशसञ्जः ० | ४ | ३ | ४९ । इति शबि नलोपे च । अभिषजति - सेने देशार्थं स्थासजोरवर्णान्तव्यवधानेऽपि विध्यर्थं सिच्सञ्ज-सेधां षणि नियमबाधनार्थं सर्वेषामव्यवधाने पदादौ च षत्त्वार्थ वचनम् । सेधेति कृत गुणस्त्र निर्देशः सिध्यतिनिवृत्त्यर्थः तेन अभिसिध्यति इत्यत्र न भवति । अकारस्तुच्चारणार्थः न तु शव निर्देश: तेन यङ लुप्यपि भवति प्रतिषिधीति । 'शिनान्तरेपि' इति वचनादन्यव्यवधानस्यानिष्टत्वात् द्वित्वव्यवधान निषिद्ध तथापि 'स्वाङ गमव्यवधायि' इति न्यायेन पुनः प्रसूत तथ वि न्यायानामनित्यत्वात् प्रवृत्तेविश्व सः कर्तुं मयोग्य इति सूरिणा द्वित्वे पि' इति भणितमिति 'द्वित्वेपि' इति वचनादनित्यताऽस्य ज्ञापिते । वस्तुतस्तु उपसर्गात्परत्वं न धाताविशेषणं किन्तु सस्येति द्वित्वेन व्यवधानात्प्रा
र
भावादुक्तं द्वित्वेपीति । नाऽनेन न्यायस्यानित्यत्याश्रयणं युक्तम् । कथं सुस्थितः दुस्थित इति ? उपसर्गसदृशा निषाता एवेत्युपसर्गत्वा - भावात् न
पत्वम् ॥४०॥