________________
(२९८)
अन्त्यत्वादप्राप्ते वचनम् । पुन: पुन: करणमासेवा तदभावोऽनासेवा। तपे इति शन्निर्देशो तपं धुप संतापे इति वादि-परिग्रहार्थः, तेन देवादिकतपिच्ऐश्वर्ये वा धातुर्न ग्राह्म: यङलुनिवृत्त्यर्थश्च तेन निस्ताप्ति, निस्तात गेतीति । भृशमत्यन्त तपत ति व्यञ्जनादे० ३।४।९। इ'त यङ न तु आभीक्षण्ये यङ ,अनासेवायामिति निषेधात् 'बहुलं लुप्' ।३।४।१४। इति यङ-लुप् "सन्यङश्च' ।४।१।३। इति द्वित्वम्, 'आगुणा०' ।४।१।४८। इत्यात्वम्, 'यङ तु. रुस्तो०' ।४।३।६४। इति विकल्पेन ईत् ॥३५॥
घस्वसः।२।३।३६॥ नाम्यादेः परस्य घस्वसोः सः स्यात् । जक्षुः । उषितः ।३६।
घस्ल अदने (५४४) इति प्रकृत्यन्तरमैव ग्राह्य परोक्षायां न वा' ।४।४।१८। इत्यदादेशस्य घसेस्तु कृतत्वेनैव षत्वस्य सिद्धत्वात्, 'शुदधातूनामकृत्रिम रूपमितिः'ध तुपाठपठिता धातवः शुद्धधातवस्तेषां कृतत्वाभावादकृत. सकारार्थ वचनम्, । वसिक आच्छादने इत्यदादिकस्य वृदभावेन नामिन:सस्यासम्भवात् स्वादिकस्यैव 'वसं निवासे' इत्यस्य ग्रहणम्, 'अदाधनदाद्यो०' इति न्यायाद्वा । घस्ल अदने परोक्षाया उसि द्वित्वे 'द्वितीयतुर्ययो:.'।४। १॥४२॥ इति घस्य गत्वे 'गहोज:' ।४।०४।। इति गस्य जत्वे 'गमहनजन' १४१२॥४४॥ इति घसोऽकारलोपेऽनेन सस्य षत्वे 'अघोषे प्रथमो० ॥१॥३॥५॥ इति घस्य कत्वे च जक्षरिति । वसं निवासे ।९९९। उष्यते स्म वसति स्मेति तप्रत्यये 'क्षुधवस० ॥४॥४॥४३॥ इतोटि 'यजादिवचे:०' ।४।१।७२॥ इति स्व. त्यनेन षत्वे च उषितः ॥ ३६॥
-
णिस्तोरेवास्वदस्विदसहः पणि ।२।३।३७॥ स्वदाविवर्जानां ज्यन्तानां स्तोरेव च सो नाम्यादेः परस्य षत्वमूते सनि ष स्यात् । सिषेवयिषति । तुष्ट्रपति । स्वदादिवर्जनं किम् । सिस्वादयिषति । सिस्वेदयिषति । सिसाहयिषति । एवेति किम् । सुसूषति । षणोति किम् । सिषेय । षत्वं किम् । सुषुप्सति ॥३७॥ -