________________
( २९६ )
. ष्ट निर्देशात् अम्बष्ठः इत्यपि भवति । अम्बायां भव: आम्बः, आम्बे तिष्ठतिति आम्बष्ठः । परमेष्ठः, विष्ठि इत्यत्र सूत्रनिर्देशादेव सप्तम्या अलुप् 'तत्पुरुषे कृति' | ३ |२| २० | इति तु न ' ने सिद्धस्थे' | ३ |२| २९ । इति निषेधत् । शेकुरुद्भिविशेष । सर्वत्र स्थापना० | ५ | १ | १४२ । इति कः 'इडेत्पुसि ० ' - ।४।३।९४। इत्याकारलोपः' अपनिष्ठनीप्यत्र तु 'उपसर्गादतो.' | ५ | १|५६ | इति ङः, अधिकरणे तु गावस्तिष्ठन्त्यस्मिन्निति 'स्थादिभ्यः कः' | ५|३|८२ इति के गोष्ठम् ||३२||
निदुस्सोः सेधसन्धिसाम्नाम् | २|३|३१|
एभ्यः परेषां सेधादीनां सः समासे ष् स्यात् । निःषेधः । दुःषेधः सुषेषः । निःषन्धिः । दुःषन्धिः । सुषन्धिः । निःषाम । दुःषाम । सुषाम |३१|
वचन-भेदाद्यथासङ्ख्याभावः । निषेध इत्यादि सेधनं सेधः 'भावाकर्त्री' | |३ | १८| इति धञ, निर्गतः सेधः, दुर्गत. सेध: । अत्र गमि वाच्यक्रियाया विशेषको न तु सेधतेरिति येन धातुना युक्ता प्रादयस्तम्' इति न्यायाद सेधि प्रत्युपसर्गत्वाभावात् 'स्था सेति०' |२| ३ |४०| इति सूत्रण षत्वं न प्राप्नोति यद्वा गतावयं सेधतिरिति गतौ सेधः । । ३ । ६१ । इति प्रतिषेधात् षत्वं न प्राप्नोतीति वचनम् । शंभनः सेधः 'सुः पूजायाम्' |३|१|४४ । इति समासः, 'धातोः पूजार्थ ० ' | ३ | १|१ | इत्युपसर्गश्त्व भावादनेन षत्वम् । संधानं संधि: 'उपसर्गाद्दः किः | ५|३|८७ | इति कि:, निर्नष्ट: सन्धिः, दुष्ट: सन्धिः 'प्रात्यव०' | ३ |१| ४७॥ इति 'दुनि० ' | ३ | १|४३| इति च समास: निर्गत दुष्टं शोभनं वा सामेति । अत्र शषसे शषसं वा' | १|३ | ६ | इति रेफस्य विकल्पेन सत्त्वेऽनेन शिडन्तरत्वात् परसकारस्य षत्वे पूवस्य च 'सस्य ||३|६१ | इति षत्वे निष्षेधादयः इत्यपि ॥ ३१ ॥
प्रष्ठोऽग्रणे | २|३|३२|
-