________________
(२८७)
इसुस्प्रत्ययान्तस्य रस्य कखपफ षं वा स्यात् । स्थानिनिमित्तयोरपेक्षा चेत् । सविष्करोति । सर्पि करोति । धनुष खादति । धनु - खादति । अपेक्षायामिति किम् । परमसपि
1 ।
1
कुण्डम्
1991
- ' प्रत्यया प्रत्यययो: ० ' 'लक्षणप्रतिपद े० ' 'अर्थवद्ग्रहणे नानर्थकस्य' इति वा न्यायात् इमुसोः प्रत्यययोग - हणात् मुनिः करांति, नदीभिः क्रियते मुहुः पठति, भिन्द्यः पापानि इत्यत्र न भवति । मुहुरित्यव्युत्पन्नमव्ययम् । इसा साहचर्यादुस औणादिकस्य ग्रहणाद् चक्रुः कुलानीत्यत्र न भवति । अत्र करोतेः परोक्षाया उस्प्रत्ययः । परमसपि कुण्डमिति - एकार्थीभावे न भवति । सामर्थ्य द्वेधा व्यपेक्षा, एकार्थीभावश्च, अपेक्षाया भिन्नपदार्थगोचरत्वद् वाक्ये अपेक्षारूपसामर्थ्यं भवत, वृत्तौ तु एकार्थीभावरूप सामथ्र्यं भवति ॥ ११ ॥
नैकार्थे ऽक्रिये २।३।१२।
न विद्यते क्रिया प्रवृत्तिनिमित्तं यस्य तस्मिनेकार्थे तुल्याधिकरणे
•
1
पदे यत् कखपफं तस्मिन् परे इसुस्प्रत्ययान्तस्य रस्य ष न स्यात् सप्पि — कालकम् । यजु ) ( पीतकम् । एकार्थ इति किम् । सर्पिकुम्भे, सपि कुम्भे । अक्रिय इति किम् ? सपिष्क्रियते, क्रियते |१२|
एकार्थे इति - एकशब्दः समानार्थः एकोऽर्थो यस्येत्येकार्थः समाना: धिकरणमित्यर्थः। वेसुसोऽपेक्षायाम् | २|३|११ । इत्यस्यायं प्रतिषेधः नान्यस्य । सर्पिः कालकमिति - काल एक कालकम् 'कालात्' | ७|३|१९| इति सूत्रेण कप्रत्ययः । यजुः पीतकमिति पीतमेव पीतकम् 'यावादित्वात् स्वार्थे कः यद्वा पीतेन रक्तमिति 'नीलपीतादकम् ' | ६ | २|४| इति कः । कालकं पीतकमिति गुणवचनमक्रियावाचि समानाधिकरणं पदमतः प्रतिषेधः ॥ १२ ॥