________________
(२८६)
पोतम् । आविष्कृतम् । प्रादुष्कृतम् । चतुष्पात्रम् ।।
- बहुवचनं निसदुस निई रोश्च संग्रहार्थम् । नितरां क्रियत इति 'क्लीबे क्तः ॥५।३।१२६॥ इति क्त निष्कृतमित्यादि । चतुष्मात्रमितिबहुव्रीहिः समाहा द्विगुर्वा समाहारद्विगावपि पात्रादित्व स्त्रीत्वप्रतिषेधात् स्त्रीत्वाभावः । पात्र दिवजितादन्तोत्तरपदसमाहारे । द्विगुग्न्नावन्तान्तो वान्य:. स्तु सर्वो नपुंसकलिङ गानुशासन-स्त्रीलिङ ग-प्रकरणस्य पञ्चमः श्लोकः। पात्रादयः शिष्टप्रयोगगम्याः । निष्पीतम्, दुष्पीतम्, बहिस्कृत, अविष्पीतम्, चतुष्कण्टकम् इत्यादयो दृष्टान्ता अपि बोध्या: । प्रादुः-पीतमित्यादयस्तु न प्रादुःशब्दस्य कुम्वस्तिविषय एवोपलम्भादिति ॥९॥
सुचो वा ।२।३।१०। सुजन्तस्थस्य रस्य कखपफि ष, वा स्यात् । द्विष्करोति । दिकरोति, द्विःकरोति चतुष्फलति, चतु फलति चतुःफलति । कक्षपफोति किम् ? विश्चरति ॥१०॥
सुच इति न रेफस्य विशेषणं तथा च सति सुच: स्थाने यो रेफस्तस्येति स्यात्तदा चतुष्फलतीत्यत्र 'रात् सः' ।२।१।१०। इति सुचो लोपे सुचोऽभावाद्र फो न स्यादिति सुचित प्रकृतेविशेषणमित्याह- सुजन्तस्थस्येति- एवं कृते सुची लोपेपि स्थानिवद्भावात् प्रकृतेः सुजन्तत्वात् चतु. फलतीत्यत्र षत्वं भवत्येव नच हि त्रिकरोतीत्यत्रापि त्रिशब्दस्थस्य रेफस्य सुजन्तस्थत्वात् तस्यापि षत्वेन भाव्यमिति वाच्यमनन्तरे कृतार्थत्वादिति । द्विष्करोतीत्यावि-द्वौ वारो करोतोत्याद्यर्थे 'द्वित्रिचतुरः०' ।७।२।११७॥ इति सुच् सिः अव्ययस्य' ।३।२।७। इति लुप् षत्वपक्षे 'रःकखपफयो:' ।१।३।५। इति जिह. वामूलीयोपध्मानीयौ विसर्गश्च । सुचन्तस्य चतुरः परहवादनेन नित्यो विधिः न तु 'निदुबहिराविष्प्रादुश्चतुराम्' ।२।३।९। इति पूर्वेण विकल्पः ॥१०॥
वेसुसोऽपेक्षायाम् ।।३।११