________________
(२७७)
शेषण इति किम् । आवां गाग्यों ब वः । अहं चैत्रो ब्रवीमि ।१२२॥
अस्मद इति- अनुकरणत्वादस्मच्छब्दकार्याप्रवृत्तिः । अविशेषणे इत्यत्र विशेषणस्वाभावः तस्मिन्निति प्रसज्यनञ् । यद्यत्र न विशेषणमविशेषणं तस्मिन्निति पर्यु दास: स्यात्तदा विशेषणे नापि विधिः, नापि प्रतिषेधः, विशेषणादन्यस्मिन् तु प्रयुज्यमाने स्यादित्यर्थः ततश्चाहं चैत्रो ब्रवोमीत्यत्र मिवन्तस्य विशेष्यस्य भावात् मैत्र इति विशेषणे सत्यपि स्यादित्याहन चेत्तस्येति । आवां ब्रवः इति- अत्र द्वयोर्मध्ये एकस्य वक्तत्वेपि अय में द्वितीय अत्मा, अहमेव वाऽ । यमित्युपचाराद् त्वं चाहं चेत्येकेशेषे वाऽस्मदर्थस्य द्विवचनमिति । नन्वेकोऽप्यात्मा यथैकत्वेनानुभूयते तथाऽनेकस्वभाववत्त्वेन द्रष्टा, श्रोता, मन्तेत्यादि नानात्वेनापि । तत्र यौकत्वेन विवक्षिते एक वचनं द्वित्वेन विवक्षिते द्विवचनं तथा बहुत्वेन विवक्षिते बहुवचनर्माप सिद्धमेवेति किमनेनेति चेत्सत्यं विशेषणप्रतिषेधार्थ वचनभिति ॥१२२॥
फल्गुनीप्रोष्ठपदस्यभे ।२।२।१२३।
फल्गुनीप्रोष्ठपदयो) नक्षत्रे वर्तमानयोञवथों बहुवद्वा स्याताम् । कदा पूर्वे फल्गुन्यो । कदा पूर्वाः फल्गुन्यः । कदा पूर्वे प्रोष्ठपदे । कदा पूर्वाः प्रोष्ठपदाः । भ इति किम् । फल्गुनीषु जाते काल्गुन्यो कन्ये ।१२३॥
- फल्गुनी च प्रोष्ठपदा चेति- फल्गुनीप्रोष्ठपदम्, तस्य द्वयर्थे भवति एकस्मिन् ज्योतिषि 'दृश्यते फल्गुनी' इत्यत्र न भवति । एकस्याः तारायां फल्गुनीप्रोष्ठपदयोः प्रयागो नास्ति इत्यन्ये । फल्गुनी-पूर्वा उत्तरा अ, प्रोष्ठपदा-पूर्व भाद्रपदा, उत्तरभाद्रपदा च । फल्गुन्यों कन्ये- ‘फल्गुन्यास्ट: ।६।३। १०६। सूत्रात् टप्रत्ययः, ‘अवर्णेवर्णस्य ।७।४।६८।. सूत्रादिकारलोप, टित्त्वात् 'अणजे २१४२०। सूत्रात् ङोः ।।१२३॥
गुरावेकश्च ।२।२।१२४॥