________________
(२७६)
चैत्रः । आख्यायामिति किम् । काश्यपप्रतिकृतिः काश्यपः । असंख्य इति किम् । एको ब्रीहिः संपन्नः सुभिक्षं करोति ।१२१॥
जायतेऽनया भिन्नेष्वभिन्नावभिधान • प्रत्ययाविति जांति: गौरय . गौरयमित्या दसदृशाभिधानज्ञानहेतुः जातेराख्यायामिति वैषयिकेऽधिकरणे सप्तमी, निमित्तसप्तमी वा । जातेरेकत्व देकवचने एव प्राप्ते पक्ष बहुवच. नार्थ बहुवद्भावः क्रियते । सम्पन्ना यवा इति जात्यर्थस्य बहुवद्भावात् सम्पन्नादि विशेषणानामपि सामानाधिकरण्याद् यवादिशब्दोपात्त जात्यर्थे वर्तमानत्वात् तेषा-मपि बहुवद्भावः । तथा चोभयव विभ्ये पि बहुवचनम्, जातिशब्दस्य बहुवद्भावे तु यवशब्दादेव जातिश. ब्दादबहुवचन स्यात् न तु तद्विशेषणभूताद्यवशब्दादिति । चैत्र इति • नायं जातियच्छ शब्दत्वात् जातिहि गोगों रित्याद्यनुवृत्तप्रत्ययकारणम् । यदिच बालकुमारादिभेदेष्वनुवर्तमानं चैत्रादिक जातिरुच्येत तदा सर्वेषां जातिशब्दत्वात् जानिग्रहणमनर्थक स्याद तस्मात् सादृश्यसामान्यमिह जातिः न स्वरुपसामान्यमिति । काश्यप इति 'बिदादेव द्ध'।६।१॥४१॥ इत्यान काश्यपः । यद्यप्यं गौत्राभिधायकत्वात् 'गोत्रं च चरणः सह' इति लक्षणेन जातिशब्दस्तथापि नानेन जातिरभिधीयतेऽपि तु प्रतिकृतिरिति । आख्याग्रहणात् प्राधान्येन जातावभिधेयायां भवति इह तु तद्विशिष्टा प्रतिकृतिरिति न भवति । एक इति वचनात् द्वयोर्जात्योर्यत्राख्या तत्र न भवति - संपन्नी व हि. यवाविति । एको व्रीहिः संपत्नः सुभिक्ष करोतीत्यत्र विशेषणभूतसख्याप्रयोगात् एके व्रीहयः संपन्नाः सुभिक्ष करोतीति न भवति । ननु एक इति संख्याशब्दः प्रयुज्यमानः स्वत: एकत्वमुद्भावयति बहुत्वं तु तद्विरुद्धमिति बहुवदतिदेशो न भविष्यतीति 'असंख्यः' इत्युपादानेनेति चेत्सत्यम् अस्यैवार्थस्यानुवादा मित्यदोषः ॥१२॥
अविशेषणे द्वौ चास्मदः ।२।२।१२२॥ भस्मदो द्वावेकश्चाओं बहुवद्वा स्यात्,अविशेषणे न चेत्तस्य विशेषणं स्यात् । आवां वः । वर्ग बमः । अहं ब्रवीमि, वगं ब्रूमः । अवि.