________________
(२७३)
विना ते तृतीया च ।१।२।११५। विना शब्देन युक्तात्ते द्वितीयापञ्चम्यो तृतीया च स्यात् । विना वातं वातात् वातेन वा ।११५।
विनेत्यव्ययं वर्जनार्थे । तच्छब्दस्य पूर्ववस्तुपरामशित्वातदनन्तरोक्त द्वितीयापञ्चम्यौ परामृश्येते इत्याह - ते द्वितीयापञ्चम्याविति । द्वितीयां नेच्छन्त्यन्ये ॥११॥
तुल्याथै स्तृतीया-षष्ठ्यौ ।२।२।११६॥ तुल्या युक्तात् तृतीयाषष्ठयो स्यांताम् । मात्रा मातुर्वा तुल्या समो वा ॥११॥ ___ तुलया अर्थग्रहणं पर्यायार्थम् । तुल्यः सदृर्शोऽर्थो येषान्ते तुल्यार्थाः तः । सम्मितःतुल्यसह गुपचारात् हृद्यपद्य०।७।१।११। इति ये तुल्यः। नन्वनन्तरात् पूर्वसूत्रात् तृत याऽनुवर्तते इति 'तुल्यायैर्वा । इति तद्विकल्पे कृते शेष।२।२।८१! इति पक्ष षष्ठी सिद्ध वेति किमर्थं षष्ठीविधानमिति चेत्सत्यं तृतीयामविकल्प्य षष्ठीविधान सप्तमीबाधनार्थं तेन गवां तुल्यः स्वामी, गोभिस्तुल्यः स्वामीत्यत्र 'स्वामीश्वग०' २।२।९८। इति सूत्रेण सप्तमी न भवति । यदात्वत्रास्मत्-स्वामी गवां तुल्यः इत्यर्थो विवक्ष्यते तदा तु गोशब्दस्य स्वामिशब्बेनायोगात् सप्तमीप्राप्तिरेव नास्तीति । उपमा नास्ति कृष्णस्य तुला नास्ति सनस्कुमारस्येत्यादावुपमादयो न तुल्यार्था इति न भवति तुल्यादयो हि धर्मिवाचका उपमादयस्तु धर्मवाचका इति न तुल्यार्था इति । गौणाधिकाराच्च गोरिव गवयः, यथा गौस्तथा गवय इत्यादौ प्रधानाद्गोशब्दान्. न भवति । कीदृग् गवय इत्येवं पृष्टो नागरिकर्यदा ॥ वदत्यारण्यको वार्ता, यथा 'गोर्गवयस्तथा ॥११॥
व्दितीयाषष्ठड्यावेनेनानञ्चे ।२।२।११७॥ एनप्रत्ययान्तेन युक्ताहि वतीयाषष्ठपो स्याताम् । मवेत्सोम्बे