SearchBrowseAboutContactDonate
Page Preview
Page 279
Loading...
Download File
Download File
Page Text
________________ (२७२) धिका खारी द्रोणेन ।११२१ अल्पीयस: इत्युपादानात् कर्मसाधनो भूयोऽर्थोऽधिकशब्द: स्वीकर्तव्य इत्याह - भूयोवाचिनेति - कर्तरि तृतीया सिद्ध व षष्ठीबाधनार्थ तु वचनम् ॥११२॥ . . . .. ... . पृथग्-नाना पञ्चमी च ।२।२।११३॥ आभ्यां युक्तात् पञ्चमो तृतीया च स्यात् । पृथग मंत्रात् मैत्रण वा । नाना चैत्राच्चत्रण वा ११३। . . यदा पृथग्नानाशब्दावन्यार्थी तदा 'प्रभूत्यन्यार्थ०' ।२।२१७५॥ इति पञ्चमी सिद्ध व। तृतीयवानेन विधीयते,परत्वाद् विशेषविहितत्वाच्च तृतीया पञ्चमी बाधेतेति पञ्चम्यनेनानूद्यते इति । विशेषस्यानुपादानादुभयार्थयोरपि पृथग्नानाशब्दयोग्रहणाद्यदाऽसहायाथों पृथग्नानाशब्दो तदा पञ्चमीविधानार्थमपीदमिति । अन्ये तु द्वितीयामपीच्छन्ति ॥११३॥ . ते द्वितीया च ।२।२।११४। ऋते-शब्देन युक्ताद् द्वितीया पञ्चमी च स्यात् । ऋते धर्मात् कुतः सुखम् ॥११॥ ऋते इत्यतो विनादिव्ययादनुकार्यानुकरणयोरभेदविवक्षातः उत्पन्नस्य टाप्रत्ययस्य 'अव्ययस्य'।३।२।७। इति लुप्। चकारेणानन्तरोक्तासमुच्चीयत इत्याह - द्वितीया पञ्चमी चेति । पाणिन्यादिभिः ऋते-शब्देन योगे द्वितीया नोक्ता तथापि शिष्टः प्रयुज्यते ऽतोऽत्र द्वितीयाप्युक्ता, तथाहि--... चित्रं यथाश्रयमृते स्थाण्वादिभ्यो विना यथा च्छाया । तद्वविना विशेषेर्न तिष्ठति न निराश्रमं लिङ्गम् ॥ . ॥११४॥
SR No.002227
Book TitleSiddh Hemchandra Vyakaranam Part 01
Original Sutra AuthorN/A
AuthorDarshanratnavijay, Vimalratnavijay
PublisherJain Shravika Sangh
Publication Year
Total Pages576
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy