________________
(२७०)
ञ्चिच्छन्दादज्ये गम्यमाने एवं षष्ठी - सप्तम्याविति यथा क्षत्रियो नॄणां नृ वा शूर इत्यत्र निर्द्धार्यमाणस्य क्षत्रियस्य नृत्वेनाविभागप्रतीतिरिति तेन । मंत्रचैत्रात्पटुरित्यत्र न भवति नात्र केनचित्प्रकारेण मंत्रस्य चैत्रविभागः शब्दाप्रतीयते न. न. हि. मंत्र चैत्रः, नाभि प रिति वाक्याद् भेद एव प्रतीयत इति । कृष्णा गवां गोषु वा बहुक्षीरेत्यत्र विभज्यमाना गौगत्वेनाविभक्ता arora तु विभक्तति एवमग्रपि । निर्धारणस्य विभागरूपत्वात् यस्य यो विभागस्तस्यावधिरुपत्वादपादानत्वात् 'पञ्चम्यपादाने' - १२/२/३९ | इति पञ्चमीप्राप्ती तद्द्बाधनार्थोऽयं योगः ॥१०९ ॥
बाण
क्रियामध्येध्वकाले पञ्चमी च २ २ ११०॥
क्रिययोर्मध्ये याध्वकालौ तद्वाचिभ्यां पञ्चमीसप्तम्यौ स्याताम् । इहस्थोग्रमिष्वासः क्रोशात् क्रोशे वा लक्ष्यं विध्यति । अद्य भुक्त्वा मुनि हात् द्वहे वा भोक्ता | ११०
"
इहस्थोऽयमित्यादि ननु इष्वास इति धनुरूच्यते यदाह - धनुश्चापोऽस्त्रमिष्वासः धनुश्च व्यधने करणं कर्ता तु चैत्रादिरिति कथक्तम्: 'इष्वासः विध्यतीति चेत्सत्यम् इष्वास इति क्रियाशब्दोऽयं इषूनस्यति क्षिपति स चैत्रादिरित्युच्यते । यत्वा करणस्य स्वातन्त्र्यविवक्षायाम् इष्वासो विध्यतीति स्थालीकरणस्य कर्तृ विवक्षायां स्थाली पचतीतिवत् । अत्र धानुष्कावस्थानमिषमोक्षो का क्रिया, लक्ष्यत्र्यधरच द्वितीया । तयोमध्ये कोशोऽध्वा । व्यधंच ताडने 'दिवादेः श्य १३४ ७२ ॥ इति श्यप्रत्यये 'शिव' |४३|२०| इति सूत्रेण ङिद्वद्भावे, 'ज्याव्यधः ० |४|११८११ इत्यनेन स्वृति, इकारे च विध्यतीति । अद्य भुक्त्वेति ननु इहस्थोऽयमिष्वास इत्यादि क्रियातु भेदाद् युक्तमुदाहरणं किन्तु इदं त्वयुक्त अद्य भुक्त्वा मुनि द्वं यहाद् व्यहे वा भोक्त ति भुजिक्रियाया एकत्वादिति चेन्न भुजिक्रियाया एकत्वेपि कालभेदाद् भेद: सिद्ध इति युक्तमुदाहरणमिति । द्वयोः रहनोः समाहारः द्वयहः 'द्विगोरनह नोट्' ।७।३।९९ । इत्यट् समासान्तः 'नोऽपदस्य तद्धिते' १७।४।६११ इत्य : न्त्यस्वरादिलोप:, अत्र द्वयोर्भोजनक्रिययोर्मध्ये द्वयहः कालः, द्वय हे पूर्ण दिन
द्वये व्यतीते सति भुङ क्ते इत्यर्थः । न च क्रोशे स्थितं लक्ष्यं विध्यति, हे पूर्ण भुङ क्त इति क्रोशैकदेशस्याधिकरणत्वात् कोशेऽप्यधिकरणत्वस्य वक्त
-