________________
(२६९)
षष्ठी वा अनादरे |२| २|१०८ |
यद्भावो भावलक्षणं तद्व तोरनादरे षष्ठी वा स्यात् । रुदतो लो
C
कस्य, रुबति लोके वा प्राव्राजीत् । १०८ ।
शब्दोपादन पक्ष पूर्वेण सप्तमी भवत्यन्यथा वाशब्द विना षष्ठाऽपवादतया सप्तमी बध्येतेति । रुदतो लोकस्येति रुदन्त लोक-मनादृत्य प्रावाजी दित्यर्थः । प्राव्राजीदिति प्रपूर्वक - व्रजधातोः 'सिजद्यतन्या' | ३ | ४|५३ | इति सिच्, 'स: सिजस्ते ० ' | ४ | ३ |६५॥ इतीत्. 'स्ताशित:' | ४|४|३२| इति इट - 'ब्रद व्रज-लू ' | ४ | ३ |४८ | इति वृद्धि:, 'इटः इति' |४|३|७१| इति सिचो लुच्, अड्० |४| ४|२९| इत्यडागमश्च ॥ १०८ ॥
सप्तमी चाविभागे निर्धारणे । २२१०९ ।
जातिगुणक्रियादिभिः समुदायादेकदेशस्य बुद्ध घा पृथक्करणं निर्द्धारणम् । तस्मिन् गम्ये षष्ठीसप्तम्यौ स्याताम् । अविभागो निर्द्धामाणकदेशस्य समुदायेन सह कथञ्चिर्दक्ये शब्दाद्गम्यमाने । क्षत्रियो नृणां नृषु वा शूरः । कृष्णा गवां गोषु वा बहुक्षोरा । धावन्तो यातां यात्सु वा शीघ्रतमाः । युधिष्ठिरः श्र ेष्ठतमः कुरुणां कुरुषु वा । अविभाग इति किम् । मैत्रश्चैत्रात् पटुः । १०९ ।
षष्ठी - सप्तम्यौ स्यातामिति गोणान्नाम्न इति शेषः । निर् र्वाद धारयतेर्भावेनटि निर्द्धारणम् विपूर्वाद्भजेर्भावे धनि विभागों भेदः, न विभागः अविभागः । क्षतात् त्रायते 'स्था-पा०' |५|१|१४२ । इति कः पृषोदरादित्वादलोपे क्षेत्र तस्यापत्यं क्षत्रादिय:' | ६ | १ | ९३ । इतीये क्षत्रिय: । नणामित्यादिषु क्षत्रियत्वजात्या कृष्णत्वगुणेन, घावनक्रियया आदिशब्दाद युधिष्ठिरप्रभृतिसञ्ज्ञया व निर्धारणम् । अविभाग इति सर्वस्यैव निर्द्धारणस्य विभागरूपत्वेनाविभागपूर्वकत्वादविभाग ग्रहणस्यानर्थक्या दविभागग्रहण साम यदवधारणमा श्रीयते अविभागे निर्द्धार्यमाणैकदेशस्य समुदायेन सह कथ
abor