________________
(२६८)
गते गम्येहवनेन्तेनैकाप्टय वा ।२।२।१०७। कुतश्चिदवविवक्षितस्याध्वनो-ऽवसानमन्तः यद्भावो भावलक्षणं तस्याध्वनो-ऽध्वन एवान्तेनान्तवाचिना सहकार्य समानाधिकरण्यं वा स्यात्, तद्विभक्तिस्तस्मात् स्यादित्यर्थः । गते गम्ये ऽप्रयुज्यमाने । गवीधुमतः सांकाश्यं चत्वारि योजनानि चतुर्ष वा योजनेषु । गत इति किम् । दग्धेषु लुप्तेष्विति वा प्रतीतो मा भूत् । गम्य इति किम् । गतप्रयोगे भाभूत् । अध्वन इति किम् । कार्तिक्या आग्रहायणी मासे । अन्तेनेति किम् । अद्य नश्चतुषु गव्यूतेषु भोजनम् ।१०७)
कुतश्चिदवधेरिति-गव धुमतः इत्यादिलक्षणात् । विवक्षितस्येतिइयत्तापरिच्छेदाय-पात्तस्याध्वनाऽवसानं साङ्क श्याद्यन्तः । यद्भाव इतियस्याध्वनश्चतुर्योजनरूपस्य भावेन गमनरूपेण अन्यो भावः साङ्काश्यभवनरूपो लक्ष्यते तस्येति एकोऽर्थो द्रव्यमनेक-भेदाधिष्ठानमस्य स एकार्थः । तस्य भावः ऐकार्थ्यम् । गवीधुमत इत्पादि- गवामी: श्री: तां दधातीति 'पृ.काहृषि०' । उणा. ७२९ । इति किदुः । सोऽ त्रास्तीति मतुः अव्युत्पन्नो वा गवीधुमच्छब्दः ततः पञ्चम ङसिः । संकाशशब्दात् 'सुपन्थ्यादेर्यः' ।६।२।८४। इति चातुरथिके ज्ये सांकाश्यम् देशनाम । चत्वारि योजनानीति- चतुर्दा । योजनेषु गतेषु भवतोत्यर्थः, पक्षे पूर्वेण सप्तम्यां चतुर्यु योजनेष्विति । गतेविति गम्यते। गम्यं प्रतीयमानार्थमप्रयुज्यमानमुच्यत इति । प्रतीताविति. प्रकरणादेरिति शेषः । गतप्रयोगे इति- गवीधूमत: साङ्काश्यं चतुर्यु योजनेषु गतेषु भवतीत्यत्र गतशब्दप्रयोगादेकार्थ्यं न भवति सप्तमी तू पूर्वेण नित्य भवतीति । कार्तिक्या आग्रहायणी मासे-कातिया:प्रभृति मासे गते आग्रहा. यणीत्यर्थः । अत्राप्यकार्थ्याभावे पूर्वेण नित्यं सप्तमी । अद्य नश्चतुषु गत्यूतेषु
भोजनमिति- भोजन क्रिया भोक्त धर्मः नावनोऽन्तः इति पूर्ववत् सप्तम्येव । -गव्यूतिरत्रास्ति विषयतयाऽ ववितया वा 'अभ्र दिभ्यः' ।७।२४६। इत्यप्र. स्यये गव्यूतं क्रोश एकः । नन्वन्तेने सहाध्वनोऽभेदोचारात् सिद्धमेवैकार्थ्य किमनेनेति चेत्सत्यं कालेप्येवं मा भूदिति वचनम् ॥१०७॥ .