________________
(२६५)
ताल्पाज्ञाते' ।७।३।३३। इति कपि पुष्पलकः, पुष्पकल: गन्धमृगः, सीमा अण्डकोशः । वेतनेन धान्य लुनातीति- नात्र वेतन धान्येन संयुक्तमिति ॥१०॥
अप्रत्यादावसाचना ।।२।१०१।
प्रत्यादेरप्रयोगे असाधुशब्देन युक्तात् सप्तमी स्यात् । असाधुमत्रो मातरि । अप्रत्यादाविति किम् । असाधुर्मी मातरं प्रति परिअनु अभि वा ।१०१।
___ इादिशब्दस्य व्यवस्थावाचित्वेन प्रति परि अनु अभि इत्येते एव अप्रत्यादावित्यत्रादिशब्दग्राह्या: । ननु साधुशब्देन सदाचार उच्यते आचरण च क्रियाविषयमिति मातृशब्देन तत्स्था परिचर्यादिक्रिया उच्यते इति मातृपरिचरणादिक्रियाणां सम्धगाचरिता मातरि साधुरुच्यते तद परीत्येनासाधु. तिरीति ततश्चासाधुमै त्रो मातरीति मातृविषयस्य साधुत्वस्य निषेधात् प्रथम मात्रा साधोर्योगादुत्तरेणैव सप्तमी सिद्धा किमनेनेति चेत्सत्यं पदान्तरसम्बन्धादेकपदवतित्वेन नञ्मम्बन्धस्यान्तरङ्गत्वातू 'असूर्यापाद् दशः' ।।१। १२६। इत्यत्र असूर्य इति किं हि वचनान्न भवति' इति न्यायात् '१३९' सूर्यशब्दस्य नत्रा सह समास इति असमथनब समासस्य च नियतविषयत्वात् प्रथमं न समासे कृते ततो मातु सम्बन्ध 'अब्राह्मणमानयेत्यादिवत् नतु साधुने- इत्युत्तरेण न सिध्यतीति वचनम् । नन्वभियोगे'लक्षणवीप्स्येत्थम्भूते.' ।२।२॥३६॥ इत्यनेन प्रत्यादियोगे तु 'भगिनि च' ।।२।३७॥ इत्यनेन द्विती'या या विशेषविधानात् सप्तमी न भविष्यतीति किम त्यादावित्यनेनेति चेत्सत्यं असाधुशब्दाभ वे द्वितीय याश्चरितार्थत्वेन प्रत्यादियोगे असाधुशब्दसमभिव्याहारे सप्तमी स्यादिति ।।१०१।।
साधुना ।२।२।१०२॥ अप्रत्यादौ साधुशब्देन युक्तात् सप्तमी स्यात् । साधुम नो मातरि। अप्रत्यादावित्येव । साधर्मातरं प्रति परि अनुः अमि वा ।१०२॥