________________
(२६०)
न्ते तदपेक्षया भविष्यत्वमिति । अन्ये तु तत्र कौण्डिन्यन्यायेन ज्ञानेच्छाचार्थ - बच्छील्यादिभ्यो भूते तस्य बाधनात् सदर्शक्त ेन च योगे कर्तरि षष्ठीविधानादपशब्दाचेताविति मन्यन्ते । तत्र देयमस्मै स तक्रदेयः स चासो कौण्डिन्यश्च तक्रकौण्डिन्यः मयूरव्यंसकादित्व द् देयशब्दलोपः तता न्यायशब्देन समानाधिकरण समासः न्यायो दृष्टान्तः इत्यर्थः सर्वेभ्यो ब्राह्मणेभ्यो दधि देय त कौडिन्याय इत्युक्त े ब्राह्मणेषु सामान्येन कौण्डिन्योपि समायातः इति पूर्णवाक्येन प्राप्तमपि दधिदान परवाक्योक्त ेन विशेषतो तत्रदानेन बाध्यते यद्यपि दधदानं त्तरं ततः पूर्ण वा दधिदान शक्यते तथा सत्यपि संभवे सामान्येन विशेषस्य बाधः इति तंत्रकौडिन्यस्यार्थः । इति ॥ ९१ ॥
वा क्लीबे | २२|९२ ।
क्लोबे विहितस्य क्तस्य कर्त्तरि षष्ठी वा न स्यात् । मयूरस्य मयूरेण वा नृत्तम् ॥९२॥
'क्लीबे क्तः ' |५|३|१२३ । इति सूत्र ेण 'भावे' इत्यनुवृत्या भावे क्तो विहितः । नृत्तमिति - नर्तनमित्यर्थः । क्लीब इत्यस्यानुपादाने चैत्रेण कृतमित्यादावपि षष्ठी स्याद् यतोऽत्रापि 'क्तक्तवतू' | ५ | १|७४ | इति सूत्रेण 'तत् साप्या' | ३|३|२१| इति भावे क्तः इति । 'कर्तरि' | २२|८६ | इति षष्ठीप्राप्तिः तस्याः तयोरसदाधारे' | २|२| ११ | इति निषेधे प्राप्ते विकल्पोऽयम् ॥९२॥
अकमेरुकस्य |२| २|१३|
कमरेन्यस्योकप्रत्ययान्तस्य कर्म्मणि षष्ठी वा स्यात् । भोगानऽभिलाषुकः । अकमेरितिकिम् । दास्याः कामुकः । ९३ ।
अभिलाषुक इति 'लषी कान्तो ( ९२७) अभिपूर्वः अभिलषतीत्येवं शीलः 'लषपतपद:' ।५।२।४१। इत्युकण् । कामुक इति - कमूङ, कान्ती