________________
(२५९)
स्य पूरक इत्यादौ निषेधो न भवति । 'दुःस्वं षतः' ।५।३।१३९। इति खलि ईषत्कर इति । 'शासू • युधि०' ।।३।१४१॥ इत्यने सुज्ञानमिति ।।९०॥ .
क्तयोरसदाधारे ।२।२।९१॥
सतो वर्तमानादाधाराच्चान्यत्रार्थे यो क्तक्वतू तयोः कर्मकोंः षष्ठी न स्यात् । कटः कृतो मैत्रेण । ग्रामं गतवान् । असदाधार इति किम् । राज्ञां पूजितः । इदं सक्तूनां पीतम्. १९१।
ननु सन् धात्वर्थः तत्र ध तुरेव वर्तते कृत्प्रत्ययस्तु 'कर्तरि' ।५॥१॥३॥ इत्य दिना कर्तरि भावे कर्मणि च विधोयन्ते इति प्रत्ययस्य सति कदापि वतमानत्वमेवनास्तीति कथमुक्त ‘सतोऽन्यत्राथें' इति चेत्सत्यं 'सदर्थसहचारो प्रत्ययार्थोपि सन्नित्युच्यते । यद्वा धात्वर्थोपि सन्निति प्रत्ययत एव विज्ञायते धातुतस्तु भूतो भवन भविष्यन् वा न ज्ञातु शक्यः, धातुस्तु क्रियामात्रमाह न त्वमु विशेषमिति सदर्थस्-तु प्रत्ययादव विज्ञायत इति कादिकारकवृत्तिरपि सतं ति विज्ञायत इति । क्तावयवयोगात् क्तवतुरपि क्तः । क्तश्च क्तश्च क्तों तयाः क्रियते स्मेति कृतः 'तत्माप्या' ।।३।२१॥ इति कैमौणि 'तक्तवतूं ।५।१।१७४। इति क्त: गच्छति स्मेति गतवान् । 'कतरि' ।५।१।३। इति तरि 'तक्तवतू' ।५।१।७४! इति क्तवतुः गतवानित्यत्र 'यमिरमिनमिगमि०' : ।४।२॥५५॥ इत्यन्त्यमकारस्य लोपः । राज्ञां पूजित इति 'ज्ञानेच्छाचार्थ'. ।५।२।९२। इति सूत्रण वर्तमाने क्तप्रत्ययः । इदं सक्तूनां पीतमिति - पीयतेऽस्मिन्निति ‘अद्यर्थाच्चाधारे' ।५।१।१ला इत्याधारे क्त: । ननु शीलितो मैत्रण, रक्षितश्चंत्रणेति कथम् ? 'ज्ञानेच्छा०।५।२।९२॥ इति सत्यर्थे क्तप्रत्ययेऽनेन प्रतिषेधाभावात् केन षष्टी-निषेध: इति चेत्सत्यमत्र भूते क्त: वर्तमान ताप्रत निस्तू प्रकरणादिनेति । आदिशब्दादा-शब्दान्तरसान्निध्यादिपरिग्रहः। नन्वयं भूते क्तस्तदा वर्तमानताप्रतीतिः कथमिति चेत्सत्यं वर्तमानमध्ये भूतो भविष्यतः च कालोस्तीति भूते क्तः यथा कट. करोतीत्यत्र केचिदवयवा निप्पन्नाः तदपेक्षयाऽतीतत्वं ये निष्पद्यन्ते तदपेक्षया वर्तमानत्वम् ये निष्पत्स्य