________________
. (२५७)
कः अथवा 'पर्यायाहणो० ।५।३।१२०॥ इति णक: 'अस्यायत्तत्' ।२।३१११॥ इतीकारश्च । अन्ये तु धजल प्रत्यययोद्विहेतोः कर्मण्येव षष्ठी-मिच्छन्ति न तु कर्तर • आश्चर्यो गवां दोहोऽगोपालकेन, आश्चर्य इन्द्रियाणां जयो यूना। पालयतीति णकः गवां पालकः 'अकेन क्रीडाजीवे' २१८१॥ इति समासः ।।८७॥
कृत्यस्य वा ।२।२।८८।
कृत्यस्य कर्तरि षष्ठी वा स्यात् । त्वया तव वा कुत्यः कट: ।८८। ।
कृत्यसज्ञा ते कृत्या: ।५।११४७। इति सूत्रण बोध्याः । कृत्य इसि 'कृ-वृषि' ।।१।४२। . इ त क्यप्प्रत्ययः । कर्तरीत्यनुबत्त्या गेयः । श्रावकः सूत्राणामित्यत्र कर्मणि षष्ठी विकल्पो न भवति । श्रावकात तु अंगीणत्वात् प्राप्तिरेव न स्ति । गायतीति गेय: 'भव्यगेय०' ।।१७। इति कर्तरि निपातनम् ।।८८॥ .
नोभयोर्हेतोः ।२।२।८९।। उभयोः कर्तृकर्मणोः षष्ठीहेतोः कृत्यस्योभयोरेव षष्ठी न स्यात् । नेतन्या ग्राममजा मंत्रेण ।८९। - नच द्विकर्मकेषु धातुष्वयं प्रतिषेधस्तत्रं वो • भयप्राप्तिभाव त् तत्र मुख्यकर्मणः कृत्यप्रत्ययेनैवाभिहितत्वात् षष्ठयविषयत्वात् गौणकर्मणस्तु .. 'गौणमुख्ययो:०' इति न्यायात् गौणादप्यप्रसङ्गात्कर्तये व निषेधो वक्तव्य इत्युभयग्रहणमंतिरिच्यत इति वाच्यं द्वितोयाबाधिका षष्ठी विधीयते यथा द्वितीया गौणादपि भवति तथा षष्ठयपि गौणादपि भवेदिति प्रतिषेधः इति । न च 'दुहादीनामप्रधाने कर्मणि तिवादयः' इति अनेन प्रधाने कर्मणि षष्ठीनिषेधादुभयग्रहणं नातिरिक्त-मिति वाच्यं तत्रापि पूर्व प्रवृत्तिविषयत्वेनान्तरङ्गत्वाद् गवादेरेव प्राधान्य, व्यवहारापेक्षया तु पयःप्रभृतेरिति ॥८९॥