________________
(२४८)
परि अप वा पाटलिपुत्राद् वृष्टो मेघः । वा इति किम् । अपशब्दो मैत्रस्य ॥७१॥
· युक्तादिति-युक्ताद्गौणानाम्नः इति भावः । परि अप वा पाटलि. पुत्रावृष्टोमेघः इति - परि पाटलिपुत्राद्वृष्टो मेघः अप पाटलिपुत्रावृष्टो मेघः इति स्पष्ट: पाटलिपुत्र वर्जयित्वेत्यर्थः । वयंवर्जकभावसम्बन्धः द्योत्यते तत्र । पर्यगाभ्यां युका वर्जनीयात् सम्बन्धषष्ठयां प्राप्त यां पञ्चमम्यनेन विधायने । अपशब्दो मैत्रस्येति - अपशब्दः दुष्टशब्द इत्यर्थः, तत्पुरुषस्य पूर्वपदप्रध नत्वात् पूर्वपदेन सह मंत्रशब्दस्य योगोस्त ति न वज्य इति व्यावृत यङ्ग विकलता। अत्र मैत्रशब्दान्मा भूत् ॥७१॥ . ..
यतः प्रतिनिधिप्रतिदाने प्रतिना ।२।२।७२। प्रतिनिधिमुख्यसदृशोर्थः । प्रतिदानं गृहीतस्य विशोधनम् ते यतः स्यातां तद्वाचिनः प्रतिना योगे पञ्चमो स्यात् । प्रद्य म्नो वासुदेंवात् प्रति । तिलेभ्यः प्रतिमाषानस्मै प्रयच्छति ॥७२॥
यस्मादिति 'किमयादि०' ।७।२।८९। इति उस्यन्त त् तस् 'आ द्वरः' ।२।१॥४१॥ इति । गम्ययप: कर्माधारे' ।।।७४। इति पञ्चमी यमपेक्ष्य प्रतिनिधि-प्रतिदाने ततः पञ्चमोत्यर्थः । यदा यस्य यतस्तदा 'आद्यादिभ्यः' 1७।२।८४। इति तसुः पृषोदरा०' ।३।२।१५५॥ इति दलोपः । प्रतिनिघोयते प्रतोतः सन् मुख्यस्थाने निधोयते आरोप्यते सदृशः क्रियते स प्रतिनिधिः । प्रतिदान तुल्यजातीयेनातुल्यजातीयेन वा गृहीतस्य प्रत्यर्पणम् । प्रतिनिधिश्च प्रतिद न च प्रतिनिधिप्रतिदाने 'औरी:' ।१।४।१६। इतीत्त्वम् । प्रद्युम्नो बासुदेवात्प्रति - सदृश इत्यर्थः । प्रकृष्टं द्युम्न पराक्रमो यस्य स प्रद्युम्नः । प्रद्युम्नस्य वासुदेवप्रतिनिधित्वाद् वासुदेवात्पञ्चमी। तिलभ्य प्रति मासानस्मै प्रयच्छति - कान् प्रयच्छति ? माषान्, कथं भूतान् ? प्रति-प्रतिदानभूतान केषां ? तिलानामिति प्रति शब्दाद्वितीयैकवचनम् । तिलान्गृहीत्वा मासान् ददातीत्यर्थः ।।७।।