________________
(२४३)
'यस्यार्थो गम्यते नचासौ प्रयुज्यते स गम्यः । गम्यस्य तुमोव्याप्ये वर्त्त मानाच्चतुर्थी स्यात् । एधभ्यः फलेभ्यो वा व्रजति । गम्यस्येति किम् । एधानाह याति । ६२
शब्द प्रयुज्यमानोऽप्रयुज्यमानश्च भवति, अप्रयुज्यमानश्चार्थ प्रकरणशान्तरसन्निधानैः प्रतीयमानार्थः, स च गम्य इत्युच्यते । एभ्यः फलेभ्यो वा व्रजतोति- एधान् फलं नि चाहर्तुं व्रजत त्यर्थ । तुमन्तस्य पंधानां फलानां च कर्मश्वद्वते याप्राप्तौ तदपवादश्चतुर्थीयम् । न च धार्थं फलार्थं वा व्रजतीति तादध्य एव चतुर्थी भविष्यति किमनेनेति वाच्यं नाफा व जनक्रिया अपि त्वाहरणार्थेति न सिध्यतीति ॥ ६२ ॥
गर्नवानाप्ते ||२२६३ ॥
1
गतिः पादविहरणं तस्या अनाप्ते वर्तमानात् चतुर्थी वा स्यात ग्रामं ग्रामात्र वा याति । विप्रनष्टः पन्थानं पथे वा याति । गते - रिति किम् । स्त्रियं गच्छति । मनसा मेरु गच्छति । अनाप्त इति किम् । संप्राप्त े माभूत् । पन्थानं याति ॥ ६३ ॥
गतिशब्दस्य ज्ञानाद्यर्थत्वेप्यनाप्त इति वचनादिह पादविहरणरूपत्र गतिर्गृह्यते, ज्ञानादिव्याप्यस्यानाप्तत्व सम्भवादत एवन्तं गतिः पादविहरणमिति । स्त्रियं गच्छतीति भजनार्थोऽत्र गमिर्न तु गत्यर्थः । मनसेत्यादिज्ञानार्थो गमिः । पन्थानं यातीति- अनाप्ते सम्प्राप्ते चतुर्थी अत्र तु पन्थानं सम्प्राप्तः इति न भवति । कृद्यागे तु परत्वात् षष्ठ्येव ग्रामस्य गन्ता ॥ ६३ ॥
मन्यस्यानावादिभ्योऽतिकुत्सने || २६४
अतीव कुत्स्यते येन तदर्तिकुत्सनं तस्मिन् । मन्यतेर्ष्याप्ये वर्तमानानावादिवर्जाच्चतुर्थी वा स्यात् । न त्वा तृणाय तृणं वा मन्ये ।