________________
(२४०)
आशणोति वेति- याचितोऽयाचितो वा द्विजनिमित्तं गोदानं ओमिति स्वीकरोत त्यर्थः । श्रृंट् श्रवणे-प्रति - पूर्व: आपूर्वश्च,तिव'स्वादेः श्नुः' ।३।४।७५॥ इति श्नुः, 'श्रौ -कृवु०' ।४।२।१०८। इति श्रु वःशुभ व. ॥५६॥ .
प्रत्यनोगुणाऽख्यातरि ।२।२।५७७ .. प्रत्यनुभ्यां परेण गृणा योगे आख्यातृवृत्तेश्चतुर्थी स्यात् । गुरवे प्रति-गृणाति । अनुगुणाति ।५७। .
गृश् शब्दे १५३८ गुरवे प्रतिगृणाति, गुरवे अनुगृणाति वा गुरूक्तमनुवदति, प्रशंसन्तं वा प्रोत्साहयतीत्यर्थ ॥५७॥
यद्वीक्ष्ये राधीक्षी ।२।२।५८॥ . वोक्ष्यं विमतिपूर्वकं निरूप्यं तद्विषया क्रियापि । यस्य वीक्ष्ये राधीक्षी वत्तेते तद्वत्तेश्चतुर्थी स्यात् । मैत्राय राध्यति ईक्षते वा । ईक्षितव्यं परस्त्रीभ्यः । वीक्ष्य इति किम् । मैत्रमोसते ५८।।
विमतिः सन्देहजनं तत्पूर्वकं निरूप्यं निरूपणीयमिति यावत् तच्चादृष्टमिष्टानिष्टफलं पुण्यपापरूपम् अप्रत्यक्षं पराभिप्रायादिकम् । राधं च वृद्धो ईक्षि दर्शने मैत्राय राध्यति ईक्षते वेति- तस्य देवं पर्यालोचयतीत्यर्थः
ईक्षितव्यं परस्त्रीभ्य इति- ...
ईक्षितव्यं परस्त्रीभ्यः, स्वधर्मो रक्षसामयम् । . .. संक्रुध्यसि मृषा किं त्वं, दिदृक्षु मां मृगेक्षणे ॥१॥ परस्त्रीणामाभिपाये यत्सन्देहादीक्षितव्यं निरूपयितव्यं किमेवं करोषि नवेति तद्रक्षसां कुलधर्मो न तु दोष इति । मैत्रमीक्षत इति-अत्र मैत्रविषय एवेक्षतिः न तु तद्वीक्ष्यविषय इति वीक्ष्यग्रहणान्न भवति ॥५॥
उत्पातेन ज्ञाप्ये ।२।२।५९।।
......
...