________________
(२२८)
- आख्यातपदेनासमानाधिकरणं गौणत्वम् । सम्बन्ध-षष्ठयाः अपवादोऽयम् । समया ग्राममित्यादि - ग्रामसमीपवृत्तिनदी, गिरिसमीपवृत्तिनदीत्यर्थः, हाशब्देन मोत्वस्य शोच्यता द्योत्यते,धिक जाल्ममत्र जाल्मस्य निन्द्यता। अन्तरा निषध नील च विदेहा । निषेधनीलयोर्मध्ये इत्यर्थः । अन्तरेण धर्ममिति धर्म विनेत्यर्थः । अतिवृद्ध कुरूनिति- कुरूणामतिक्रमेण पाण्डवानां महद् बृहद् बल वर्तत इत्यर्थः । येनेति - येनतेनौ लक्ष्यलक्षण-भावं द्योतयतः पश्चिमां प्रति लक्ष्यीकृत्य गत इत्यर्थः । अयं गतः कां प्रति पश्चिमा प्रति । पश्चिमया लक्षणेन देवदत्तस्याप्रसिद्ध लक्षणं लक्ष्यते । बहुवचनादन्ये. नापि युक्ताद्भवति यथा न बुभुक्षित प्रति भाति किञ्चित् । धातुसम्बद्धोऽत्र प्रतिस्तेन 'भ गिनि च०' ।२।२।३७। इति न सिध्यतीति । गौणादिति किम् - अन्तरा गार्हपत्यमाहवनीयं च वेदिः, अत्र प्रधानादिशब्दान्न भवति ॥३३॥
ब्दित्वेधोध्युपरिभिः ।२।२३४। . द्विरुक्तरेभियुक्तानाम्नो द्वितीया स्यात् । अधोऽधो ग्रामम् । अध्यsधि ग्रामम् । उपयुंपरि ग्रामं ग्रामाः । द्वित्व इति किम् । अधो गृहस्य ॥३४॥
. बहुवचनमेकद्विबहाविति यथासङ्खयनिवृत्त्यर्थम्, 'सामीप्येऽधोध्युपरि०' १७।४।७९। इति द्वित्वम् । षष्ठ्यपवादः यस्य सामीप्यं तस्माद्ग्रामादेः सम्बन्धे षष्ठयां प्राप्तायामिदं वचनम । अषो गहस्येति • अत्रौत्तगधर्यमात्र विवक्षितं न सामीप्यमिति द्वित्वाभावः ॥३४॥ .
सर्वोभयाभिपरिणा तसा ।।२॥३५॥ सर्वादिभिस्तसन्तयुक्तानाम्नो द्वितीया स्यात् । सर्वतः । उभयतः । अभितः । परितो वा ग्रामं वनानि ॥३५॥ - षष्ठयपवादः। तसेति सर्वादिविशेषणात्तदन्तयिधिः । सर्वत: उभयत इत्यत्र 'आद्यादिभ्यः' ।२।२।८४। इति तसुः अभिपरिशब्दाभ्यां 'पर्यभे:०' ७।२।८३॥ इति तसुः ॥३५॥