________________
( २२७ )
साधनाऽऽधिपत्येभ्यः अतद्भावेपि तद्वदुपचार: । यथा साहचर्यात् कुन्ताः प्रविशन्ति, स्थानात् - मञ्चाः क्रोशन्ति, तादर्थ्यात् इन्द्रः स्थूणा, वृत्तात् यमोSय राजा, मानात् प्रस्थो व्रीहिः धरणात्तुला चन्दनम, सामीप्यात् गङ्गातटं गङ्गा, योगाद्रक्तः कम्बलः, साधनात् अन्नं प्राणाः, विपत्यात् ग्रामाधिपति• ग्रमः ||३१||
आमन्त्रये ।२।२३२४
आमन्त्र्यार्थ वृत्त र्नाम्नः प्रथमा स्यात् । हे देव । आमन्त्र्य इति किम् । राजा भव । ३२।
प्रतिसम्बन्धस्य किमप्याख्यातुमभिमुखीकरण मामत्रणमतद्विषय आमध्यः प्रसिद्धतस्म्बन्धः कः ?- देवदतत्वादिना प्रवृत्तिनिनित्तेत सम्ब न्ध: अथवा तेनामन्त्यवाविना देवदत्तादिशब्देन सम्बन्धः वाच्यवाचकभावः प्रसिद्धस्तत्सम्बन्धो यस्य तस्य देवदत्तादेति येत निरवधान आत्मा साथधानः क्रियते तदामन्त्रणमिति स्पष्टार्थः । राजा भवेत्यत्र राजाऽत्र नामन्त्रयः किन्तु स एव विधीयते इति पूर्वेणैव प्रथमा । ननु पूर्वेणैव सिद्ध: किमनेनेति वाच्यम्- आमन्त्र्यामन्त्रणभावसम्बन्धे विषयविषयिभावसम्बन्धे वा प्रथमापवाद: 'शेषे' ।२।२।९१। इ त षष्ठी प्राप्नोति तद्बाधनार्थं वचनम् ||३२||
गौणात्समयानिकषाहाधिगन्तरान्तरेणातियेन
तेनैदितीया ।२।२।३३०
T
समयादिभिर्युक्ताद् गोणान्नाम्न एकद्विबहौ यथासंख्यममोश सिति द्वितीया स्यात् । समया ग्रामम् । निकषा गिरि नदी । हा मैत्र व्याधिः । धिग्जात्मम् । अन्तरान्तरेण च निषधं नीलं च विदेहाः । अन्तरेण धर्म्म सुखां न स्यात् । अतिवृद्ध कुरुन महद्बलम् । येनपश्चिमां गतः । तेन पश्चिमां नोतः |३३|