________________
(२१९)
हेतुका तृतीयैव स्यादिति चेत्सत्यम् अस्मिन् सूत्र यद्यपि युगपत्यज्ञाद्वयस्य वि. धानमस्ति नथापिअक्षानदेर्वा दीव्यतोति यत्ययोगद्वयं दृश्यते तत्सत्ययं द्विधा सूत्र भिद्यते - दिवः करणं वर्म स्यात् । दिव: करणं करणं स्यादिति सूत्रद्वयारोपणे तु स्पर्धाभावेन स्वम्वविषय उभयोरपि सावकाशत्वाद्वितीयतृतीये उभेऽपि पर्यायेण भवतः । अन्यथा कर्मसञ्जाविधायकसूत्रस्यानवकाशत्व स्याद् ॥१९॥
अधेः शीस्थास आधारः ।२।२।२०।
अधेः संबद्धानां शीड स्थासामाधारः कर्म स्यात् । प्राममधिशेते । अधितिष्ठति अध्यास्ते वा ।२०।।
अकर्मका अपि धातवः सोपसर्गा: सकर्मका भवन्तीति सिद्धमेव सकर्मकत्वमाघारबाधनार्थ तु वचनम् । अधिशेत इत्यादि - शीङक स्वप्ने तेप्रत्यय: 'शोङः ए: शिति' ।४।३।१०४। इत्येकार: । ष्ठां गतिनिवृत्तौ तिव् 'नौति०' ।४।२।१०८॥ इति तिष्ठादेशः । आसिक् उपवेशने तेप्रत्ययः ॥२०॥
-
-
उपान्वध्यावसः ।२।२॥२१. उपादिविशिष्टस्य वसेतराधारः कर्म स्यात् । ग्राममुपवसति । 'अनुवसति । अधिवसति । आवसति ॥२१॥
उपश्चानुश्चाधिश्चाङ चेति द्वन्द्वं कृत्वा ते पूर्वे यस्मात् स उपाविध्याङ पूर्वः स चासो वसिति विशेषणसमास:, मयूरव्यंसकादित्वात्पूर्वस्य लोपः, एभ्य: परो वसिति वा समासः । शब्दशक्तिस्वाभाव्यादन्वादिपूर्वो वसतिः स्थानार्थः तत्साहचर्यादुपपूर्वस्यापि वसतेः स्थानार्थस्यव ग्रहणं न तु भोजननिवृत्तिवचनस्य तेन उपवसति भोजननिवृतिमुपवासं करोतीत्यत्र न भवति । 'अदाधनदाद्योरनदादेरेव' इति न्यायाददादिवस्तग्रहणं न भवति परन्तु भ्वादिवसते हणं भवति ॥२१॥ .