________________
(२१५)
कस्यधोदकं वोपस्कुरुते ॥१२॥
पुनर्यत्न इति- प्रतिशब्द: पुनरर्थेऽव्ययम् 'अव्ययं प्रवृद्धादिभिः' १३॥१॥४८॥ इति समासः । प्रथममर्थलाभाय यत्नः क्रियते । लब्धात्मनो विशेषान्तरमुत्पादयितु परिपूर्णगुणस्य तादवस्थ्यरक्षणार्थ वा यत्नः क्रियते स पुनर्यत्नः । एधोदकस्येति - एधाश्च उदकानि च 'अप्राणिपश्वादेः' ।३।१११३६। इत्येक त्वम् । उपस्कुरुत इति - उपपूर्वस्यैव करते: प्रतियत्नविषयत्वात् उपपूर्वस्यैव करोते: 'गाधना'० ॥३॥३।७६॥ इत्यात्मनेपदमत एवोदाहरणमुपपूर्वस्यैव दर्शितम् । 'उपाद्भूषा०' ।४।४।९२। इति स्सट् ॥१२॥
रुजाश्र्थस्याऽज्वरिसन्तापेर्भावे कतरि ।।२।१३। रुजा पीडा तदर्थस्य ज्वरिसन्तापिवर्जस्य धातोार्य कर्म वा स्यात् । भावश्चेद्र जायाः कर्ता । चौरस्य चौरं वा रुजति रोगः। अज्वरिसन्तापेरिति किम् । आध नं ज्वरयति सन्तापयति वा। भाव इति किम् । मैत्रं रुजति श्लेष्मा ।१३।।
'हजोत् भङ्ग' इत्यस्मात् 'भिदादयः' ।।३।१०८॥ इत्याङ रुजा। भावश्चेदिति- अत्र सामान्योऽपि भावशब्दः सिद्धरुपे भावे वर्तते साध्यरुपस्य भावस्य कर्तृत्वानुप पत्तेः । चौरस्येत्यादि-चौरस्य रुजति रोगः, चौरं रुर्जात रोग: कर्मवैकल्पिकत्वादुदाहरणद्वये । चूरण स्तेये इतिधातारणिजन्तस्य भिदादित्वाद ङ चुरा,सा: शीलमस्येति 'अङस्थाच्छत्रादेरञ्'।६।४।६०। इत्यति वृद्धौ च चौर इति । रुजतोति पदरुज०१५।३।१६। इति पनि रोग: । श्लेष्मेतिश्लिष्यतेर्मन् श्लेष्मेति द्रव्यं न तु भावः । रोगो व्याधिरामयः इत्यादयो भावरुपाः कर्तारः । आद्य नं ज्वरयति- औदरिकं अत्यधिकबुभुक्षितं पीडयतीत्यर्थः ॥१३॥
जासनाटकापिषोहिंसायाम् ।२।२।१४। .