________________
(२१६)
हिंसार्थानामेषां व्याप्यं कर्भ वा स्यात् । चौरस्य चौरं वोज्जासति । चौरस्य चौरं वोन्नाटयति । चौरस्य चौरं वोत्त्रार्थयति । चौरस्य चौरं वा पिनष्टि । हिंसायामिति किम । चौरं बन्धनाज्जासयति |१४|
जमण् हिंसायाम् (१७१३) जसण् ताडने ( १७५८ ) इति चुरादी गृह्यते न तु जसूच् मोक्षणे ( १२२३) इति दिवादिस्तस्याहिसार्थत्वात् एवं नटण् अवस्यन्दने (१५९३ ) इत्यस्य ग्रहणं न तु णट नृत्तौ ( १८७ । इत्यस्य तस्याहिसार्थत्वात् अवस्यन्दनं हिसाभेद: ऋथ ( १०४५ | इति घटादि: याजादिकस्य तु क्रयो ग्रहण केचित् मतें नेष्यते, अस्माक मते तु यजादिकस्यप ग्रहणमिष्यते पिलप्सचूर्णने १४९३ ननु । धातपाठे जसनिवर्तते तत्कथं जासनाटकाथेति निर्देशः । न च ण्यन्तानां निर्देश इति वाच्यं तर्हि जासिनाटिकाथ ति पठयेतेति चेत्सत्यं कृताकारनिर्देशो यत्राSSकार तिस्तव स्यादित्येवमर्थं तेन 'उपान्त्यस्या' |४| २|३५| इति हस्वत्वे दस्यु मुदजीजसद् दस्युम नीनटत्, दस्युम चित्रथ दित्यत्र न भवति (जसनटयोश्चुरादित्वात्तत. णिच्, उत्क्रयति तमन्यः प्रयुङन े इति प्रयोक्तुव्यापारे जिग् ञ्णिति' ३५ इति वृद्धि:, ततोऽद्यन्तयादिः 'for-foto' | ३ | ४१८८ । इति डः, ततः उपान्त्यस्या० |४ |२| ३५॥ इति हस्व:, ततः द्विर्वचनादि) ननु कथधातुर्घटादिरतः 'घटादे ह स्वः ० ' | ४|२| २४| इति सूत्र ेण चौरस्योत्काययतीत्यत्र हस्वत्वेन भाव्यमिति चेन्नात एवं निर्देशात् ऋणिगि सत्याकारस्य भावः, ननु तर्हि घटादित्वेन पाठो व्यर्थ इति चेन्न कर्मसञ्ज्ञाप्रतिषेधपक्ष एव न हस्व: कर्मणि तु हस्वत्वमेवात एवाह चौरस्यो- त्काययति, चौरमुत्कथयतीति । ननु तर्हि दस्युं मुदजीजस दित्यादावपि 'उपान्त्यस्या०' | ४ | ३ | ३५ | इत्यस्य पक्ष किं न निषेध इति चेत्सत्यं 'येन नाप्राप्तेο' इति न्यायाद् 'घटादे: ० ' | ४|२| २४ | इत्यस्यैव निषेध इति । ननु हिंसाया रुजारुपत्वात् 'रूजार्थस्या०' |२|२| १३ | इत्यनेनैव कर्मविकल्पा भविष्यति किमनेन । न च जासनाटकाथेत्याकारश्रवणार्थमिदं वचनमिति पूर्वेण भावे - कर्तरि विधीयतेऽत्र तु चौरस्योज्जासयति यज्ञदत्त इत्यभावेऽपि कर्तरि स्वादित्येवमर्थमिति ||१४||
6