________________
(२१४)
नाथते। सविनयते । आत्मन इत्येव । पुत्रमुपनायति पाठाय
1901
पृथtयोगाद् 'अणिक्कर्ता नाविति निवृत्तम् 'कर्तुं व्र्व्याप्यं' |२| २|३| इति नित्यं कर्मत्वे प्राप्ते विकल्पः । ७१६ नाशृङ उपतापैश्वर्याशीर्याचनेषु इत्यचतुष्टये वर्तमानत्वेभ्यस्य 'आशिषि नाथः ' | ३|३३६ । इत्याशरर्थे एवात्मतेपदम् इदं कत्रापेक्षयोक्त भावकर्मणोस्तु सर्वधातूनामात्मनेपदं तत्साध्या०' ३॥३॥२१॥ इति सूत्रेणास्त्येव । सर्पिषो नाथते, सविनाथते सरि मे भूयादित्याशास्ते आशंसा करोतीत्यर्थः । सर्पिषो नाथंत इत्यत्र कमभावाक्षे 'शेषे' २२८१ इत्यनेन षष्ठी। पुत्रमुपनाथति पाठाय उपचायत इत्यर्थः ॥ १०॥
स्मृत्यर्थदयेशः || २|११.
स्मृत्यर्थानां दयेशोश्च व्याप्यं कर्म वा स्यात् । मातुः स्मरति । मातरं स्मरति । मातुः स्मयंते । माता स्मयंते । सप्पियो सन्धिर्वा बयते । लोकानामोष्टे । लोकानीष्टे |११|
अर्थग्रहणात् मातुययति मातरं ध्यायतं. त्यादयोऽ पि गृह्यन्ते । दयत इति दयि दानादौ । लोकानामोष्ट इति व्यापारेषु नियुङ क े स्वायत्तीकरोतीत्यर्थः । ननु 'विवक्षातः कारकाणि' इति न्यायात् कर्माविवक्षायां 'माषाणामश्नीयाद' इत्यादिवच्छेषे षष्ठी सिद्ध वेत्यलं विधानेनेति चेत्सत्यं 'षष्ठ्ययत्नाच्छेषे' | ३|१|७६ ) इत्यत्रायत्नजे शेषे षष्ठ्याः समासो वक्ष्यते ततोऽत्र यत्नजायाः षष्ठीसमासो न भवेदित्यर्थं नियमार्थं च तेनेषां धातूनां कर्मव शेषत्वेन विवक्ष्यते न कारकान्तरं तेन 'मात्रा स्मृतम् मनसा स्मृतमिल या कर्तृ करणयोः शेषविवक्षाभावात्षष्ठी न भवति ॥११॥
कृग प्रतियत् । २।२।१२।
पुनर्यत्नः प्रतियत्नस्तद्वत्तेः कृगो व्याप्यं कर्म वा स्यात् । एधोद