________________
अथ द्वितीयाध्याये द्वितीयः पादः
क्रियाहेतुः कारकम् ।२।२।१।।... क्रियाया निमित्त कादि कारकं स्यात् । करोतीति कारकमिति. अन्वर्थाश्रयणाच्च निमित्तत्वमात्रेण हेत्वाः कारकसंज्ञा न स्यात् ।१।
कारकं द्रव्याणां स्वपराश्रयसमवेतक्रिया नवर्तकं सामर्थ्य शक्तिः । क्रिया त्रेधा स्वाश्रिता, पगमिता, उभयाश्रिता च । चैत्र आस्ते इति स्वाश्रिता । घटं कर तीति परापिता । अन्योन्यमाश्लिष्यतः मित्रे इत्युभयाश्रिता तस्यास्त्रिविध क्रियाया विर्तकं निष्पादकं सामर्थ्य शक्ति: कारक मित्युच्यते । द्रव्यस्य कारकत्वे तु प्रतिबन्ध कमन्त्रादिसन्निधानासन्निधानाभ्यां दहनादेर्दाहोत्पत्त्यनुत्पत्तो न स्याताम् । द्रव्यस्वरूपस्य सर्वथैव विद्यमानत्वादुत्पत्तिरेव स्यात्तस्माच्छ करेव कारकम् । चैत्रादेस्तु कारकत्वं शक्तिशक्तिमतोर भेदनयेन । अन्वर्थाश्रयणाच्चेति- चकार' त्रैवकारार्थेऽ-वधारणे वर्तते । हेत्वादेरितितेन विद्ययोषित इत्यत्र विद्याशब्दस्य कारकत्व भावान्न 'कारक कृता ।३।१॥ ६८॥ सूत्रासमासः । तृतीया तुहेतु० ।२।२।४४। सूत्रेण कृता । आदिशब्दात्सम्बन्धस्य सहार्थस्य चाकारकत्वम् तेन बहूनामिद वस्त्रमित्यादौ 'बह वल्पार्थात्कारका०।७।२।१५०। सूत्रेण शस् न भवति । पुत्रेणागत इत्यादौ च 'कारकं कृता ।३।१।६८। सूत्रात्समासो न भवति । षोढा कारकाणि-कर्तृ कर्मकरणसम्पदानापादानाधिकरणरूपाणि । ब्राह्मणस्य पुत्रं पन्थान पच्छतो. त्यादो ब्राह्मणस्य पुत्रेणा न्यथा सिद्धया न कारकत्वम् । डुकृग् करणे-क्रियते इति 'कृगः शः च वा ।।३।१००। सूत्रात् शे 'क्यः शिति ।३।४।७०। सूत्रात् क्ये 'रि: श- क्याशीर्ये ।४।३।११०॥ सूत्रात् रोच क्रियेति । क्रियायाः हेतुः= क्रियाहेतुः । क्रियाशब्दस्य भावकर्मणारिय व्युत्पत्तिः यदाऽपादानादौ श-प्रत्ययस्तदा क्यो न भवति, तदेयादेशः ॥१॥
स्वतन्त्रः कर्ता ।२२।