________________
(२०७)
श्याच्छवश्च परस्याऽतुरोङयोः परयोरगत इत्यादेशः स्यात् । वीव्यन्ती । पचन्ती ।११६८
पूर्वेणैव सिद्ध नित्यार्थमिदम् । दिध्यतीति - दिवूच क्रीडादी ११४४ 'दिवादे श्यः' ।३।४।७२। इति श्यः ।
दिव औः सो ।२।१।११७॥ दिवः सौ परे औः स्यात् । चौः।११७॥
निरनुबन्धग्रहणे न सानुबन्धकस्य' इति न्यायात्सानुबन्धस्य दिवूचधातोः अक्ष दिव्यतीति क्विपि ऊटि कृते 'एकदेशविकृ०' इति न्यायात्प्रा. प्तावपि न भवति । अत्राव्युत्यन्नस्य दिवो नाम्नो ग्रहण व्युपत्तिपक्षेपि 'दिवेडिव्' उणा० ९४९ । इत्यवयवानां सानुबन्धत्वं न तु नाम्न इति । धौरिति - अत्र 'उ: पदान्तेऽनूत्' ।२।१।१०८। इति प्राप्तेप्यनवकाशस्वादनेन औरेव प्रवर्तते न तुकारः । दिवः औकारेण सम्बन्धात् से: परत्वमात्रविज्ञानात् प्रिया धो: यस्य स प्रियद्योरित्यत्रापि भवति ॥११७॥
-
उः पदान्तेऽभूत् ।२।१।११८॥ पदान्तस्थस्य दिव उः स्यात् अनूत् । स तु बी? न स्यात् । भ्याम् । युषु । पदान्त इति किम् । दिवि । अनूदिति किम् । न्युभवति ॥११९॥
. भवतीति - अद्यौद्यौं भवतीति 'कृम्वस्तिभ्यां.' ७।२।१२६॥ इति विः, 'नपयोगीत् ११११३७। इति तस्य लोप: 'ऊर्याद्य०' ६१२। इति गति सज्ञा गतिः' ॥११॥३६॥ इत्यव्ययसञ्ज्ञा अत्रानूदिति वचनात् 'दीर्घश्च्वियङ०' ।४।३।१०८। सूत्रात् दीर्घत्व न भवति । ऊकारस्य निषेधात् धु कामस्यापत्य धोकामिरित्यादो वृद्धिस्तु भवत्येव । ननु 'दिवौकसः' इत्यबान्तवर्तिनीं विभक्तिमाश्रित्य पदादावुकारेण भाव्यमिति चेत्सत्यं पृषोदरादित्वात् अकारागमो भवति अथवा वृत्तिविषये अकारान्तो दिवशब्दोऽस्ति । वृत्तिविषये एव प्रयुज्यते केवलस्तु न प्रयुज्यते इत्यर्थः ॥११८॥ .
इति द्वितीयाध्याये प्रथमः पादः ॥