________________
(२०४ )
राजनि ॥१०९॥
fsargasterरोपि विभक्तिरुप एव ग्राह्यस्नेन ' औरी : ' । । १।४।५६। इत्यौकार स्थाननिष्पन्न एव गृह्य ते तेन ङी प्रत्यये तु पूर्वेण नित्यमेव 'निरनुबन्धग्रहणे न सानुबन्धस्य' इति न्यायाद्वा ॥ १०९ ॥
षादिहन्धुतराज्ञोऽण | २|१|११० |
पावेरनो हनो धृतराज्ञश्चातोऽणिप्रत्यये लुक् स्यात् । औक्षणः । ताक्ष्णः । श्रौणघ्नः । घातं राज्ञः ॥११०॥
'S
उयस्य
मिति 'ङ' पत्ये' | ६ | १|२८| इत्यण् । तक्ष्णोऽपत्रमिति 'सेनान्त०' । ६ । ११६० । इत कारूद्वारा प्राप्त रस्य बाधकः "शिवादेरण् । ६ । १ । ६० । इत्यण् । भ्रूणं हतवा - निति 'ब्रह वभ्रूणवृत्रात् क्विप्' | ५ | १ | १६ | इति विर्वापि भ्रूणघ्नोपत्यमिति 'ङसोपत्ये' | ६|१|२८| इत्यण्यनेनाल्लीपे 'हनो हमो घ्नः' २११२ ॥ इति ध्वादेशे भ्रौणघ्नः इति । धृता सजानो येन तस्यापत्यमित्यणि ध राज्ञः ॥ ११०॥
न वमन्तसंयोगात् । २।१।१११| वान्तान्मान्ताञ्च संयोगात्परस्यानोऽस्य लुग्न स्यात् । पर्वणा । कर्मणी 1999 1
वमयोः संयोगविशेषणत्वेन 'विशेषणमन्तः' | ७|४|११३ | इत्यन्तत्वे लब्धेऽन्तग्रहणं स्पष्टार्थम् । अन्यथा 'वमसंयोगात्' इति समस्तनिर्दे शेऽनयोरेव संयोगात् इत्याशङ्का स्यात् । 'वमः संयोगाद्' इति व्यस्तनिदेशे वकारमका - राभ्यां परो यः संयोगस्तस्मा - दित्यपि प्रतीयेतेति । पर्वणेति 'अनोऽस्य' | २|१|१०८ । इति प्राप्ते वान्तसंयोगात् परत्वाद - नेन प्रतिषेधः एवमग्रेपि ||२१|१११।