________________
( २०३)
श्वेनेत्यत्र अधुर स्वरादिप्रत्ययस्य व्यवधानादेव न प्राप्तिरिति किं नकागनिर्देशादिति कथनेनेति वाच्यं समासान्तः समासस्यावयवो भवति तथोतरपदावयव पीष्यत इति ततश्च श्वशब्दावयवत्वादव्यवधानेन प्राप्तिरिति ॥१०६ ॥
लुगातोऽजाप | २|१|१०७
आपवर्जस्पातो ङीस्याद्यघुट स्वरे लुक, स्यात् । कीलालपः । हाहे देहि | अनाप इति किम् । शालाः ॥१०७॥
अत्रासम्भवेयुत्तरार्थं ङी रित्यनुवर्तते । कीलाल पिवतीति विवपि विचि वा कीलालपाः तान् कीलालप: । 'ओहाङ्क, गतौ' हाशब्दं जिहीते गीतका कर्तव्यतया आप्नोतीति विचि हाहा: तस्मै हाहे । देहीति 'हो दः' |४|१|३१ । इ'त क्त्वाटाशब्दयोः केचिदस्त्रीत्वं केचित्स्त्रत्व चेच्छनीति- ततः स्त्रत्वेनाप इति वचनादनेन लुगभावे क्त्वायाः टाया इत्येव भवति अस्त्रीबे त्वनेन लुचि क्त्वः, टः इत्याद्य ेव भवति ।। १०७ ।।
अनोsस्य |२||१०८1
ङीस्याद्यघुट - स्वरेऽनोऽस्य लुक् स्यात् । राज्ञी । राज्ञः । १०९ ।
'राज्ञीति : स्त्रियां नृतो० ' | २|४|१| इति ङ े, 'तवर्गस्य '
-
|| १ | ३ |६० | इति नस्य वः । न च 'स्वरस्य ० ' | ७|४|११० । इत्यत्र प्राचो विधि: प्राग्विधिरिति पञ्चमीसमासस्यापोष्टतया ञत्वे कर्तव्ये स्वरादेशस्य स्थानिवद्भावात्-क - कथं त्वमिति वाच्यं 'न सन्धि ० ' |७|४|१११ । इति सन्धिविघौ स्थानिवद्भाव निषेधाद् ॥ १०८॥
ईडौ वाः | २|१|१०९ ।
ईकारे ङौ च परेऽनोऽस्य लुग्वा स्यात् । साम्नी सामनी राशि