________________
(१९९)
निशाग्रहणं निज्म्यामित्यस्य सिद्धयर्थमन्यथा निशशब्दस्य भ्यामि विवबन्तस्वाद् धातुत्वे 'यजसृज०' ।२।११८७। इति षत्वे निड्भ्यामित्येवस्यात् सुपि तु त्वनेनान्तलोपे 'धुटस्तृ०।२।११७६। इति तृतीये, जकारे, जकारस्य प्रथमत्वे 'सस्य शषौ' ।१।३।६१॥ इति सुपः सस्य शत्वे 'प्रथमादधुटि.' ।३।४। इति छत्वे निच्छु । जकारस्य तु परे गत्वेऽसत्त्व द् गत्वं न भवति ॥१०॥ .. .
दन्तपादनासिकाहृदयास्ग्यूषोदकदोयकृच्छकृतो दत्पन्नस्हृदसन्यूषन्नुदनदोषन्यकञ्छकन् वा ।२।१।१०१॥ शसादौ स्यादौ दन्तादीनां यथासंख्यं दत् इत्यादयो वा स्युः । दतः, दन्तान् । पदः, पादान् । नसा, नासिकया। हृदि, हृदये । अस्ना, असृजा । यूष्णा, यूषेण । उद ना, उदकेन । दोष्णा, दोषा। याना, यकृता । शक ना शकृता ।१०१॥
. 'यथासङ्ख्यमनुदेश: समानाम्' इति न्यायादाह यथासङ्खयमिति ॥१०॥
यस्वरे पादः पणिक्याटि ।२।१।१०२।। णिक्यघुट :वर्जे यादौ स्वरादौ च प्रत्यये पादन्तस्य पद स्यात् । वयाघ्रपद्यः । द्विपदः पश्य । पादयतेः क्विपि । पाद् । पदी कुले। यस्वर इति किम् । द्विपाद्भपाम् । अणिक्यघुटीति किम् । पाव. यति । व्याघ्रपाद्यति । द्विपादौ ।१०२॥
नाम्नः इत्यस्य विशेषणात्तदन्तविधेराह-पादन्तस्येति । 'निदिश्यमानस्यवादेशा' भवन्ति' इति पाच्छब्दस्यवाऽऽदेश: न तु तदन्तस्य सर्वस्य । बयाघ्रपद्य इति व्वाघस्येवि पादावस्येति-व्याघ्रपाद् 'पात्पादस्य०' ७।३।१४८।