________________
( १९८)
सुराजकेर्थे राजन्वान् मतौ निपात्यते । राजन्वान् देशः । राजन्य
त्यः प्रजाः १९८०
सुराशीति- शोभनो राजा यस्य तस्मिन्नभिधेये इत्यर्थः । राजन्वान्देश इति - शोभनो राजाऽस्यास्मिन् वास्तीति लिङ्गवचनयोरतन्त्रत्वादाहराजन्वन्त्यः प्रजा इति । राजसत्तासम्बन्धमात्रे विवक्षिते तु राजवानित्येव भवति ॥९८॥
नोम्र्म्यादिभ्यः । २।१।९९ ।
कर्म्यादिभ्यो मातोर्मोवो न स्यात् । ऊम्मिमान् । ६ल्मिमान् इत्यादि ९९|
ऊर्मिमान् दल्मिनानित्यत्र मोपान्त्यत्वात्प्राप्ते प्रतिषेधः । बहुवचनमाकृतिगणार्थं तेन यस्य सति निमित्ते वत्त्वं न दृश्यते स ऊर्म्यादिषु द्रष्टव्यः । असदधिकारोऽ व निवृत्तः ॥ ९९ ॥
मासनिशासनस्य शसादौ लुग्वा | २|१|१०००,
शसादौ स्यादावेषां लुग्वा स्यात् । मासः मासान् । निशः निकाः । आसन आसने ।१००
'षष्ठयाऽन्त्यस्य' |७|४|१०६ । इत्यन्त्यस्य लुग्भवति । स्यादिभिन्नः शसादिनं सम्भवतीति स्यादावित्युक्तम् । यद्यपि सङ्घार्था०' |७|२|१५१ इति विहितः शस् सभवति तथापि 'सङ्ख्यादे० ' | ७| २।१५२। इत्यकलादोनामसम्भवेनादिग्रहणस्यानर्थक्यप्रसङ्गादित्युक्तम् । यद्वा मण्डुकप्लुतिन्यायेन स्यादिरनुवर्तनीयः अथवाऽऽदिशब्दस्य व्यवस्थावाचित्वाद्वा स्यादिरेव लभ्यत इति । मासशब्दस्य भ्याम्यनेनान्तलोपे 'असिद्ध' बहिरङ्गमन्तरङ्ग" इति न्या. याकारस्यासिद्धत्वेन 'सो रु' | २|११७२ ॥ इति रुत्वाभावे 'घुटस्तृतोय:' । |२||७६ | इति कर्तव्ये तु न्यायस्यानित्यत्वाद् माद्भ्यामिति केचित् मन्यन्ते । अन्ये तु माभ्यामिति स्वमते तुभयमपि भवति । निशुशब्दे सत्यपि
1