________________
(१७४)
स्यादौ वा ॥१५॥ अनेकस्वरस्य धातोरुवर्णस्य स्वरादौ स्यादौ परे वः स्यात् । वसुमिच्छन्तौ वस्वो । स्यादाविति किम् । लुलुवुः ।५७।
- वसुमिच्छन्तौ - देवमग्निं राजानं वेत्यर्थः द्रव्यवृत्तस्तु नपुसकत्व त् । यवोः प्वय्०' ४।४।१२१॥ इति यलुक् ॥१७॥
क्विनवृत्त रसुधियस्तो ।२।१।५८॥ विवबन्तेनैव या वृत्तिः समासस्तस्याः सुधीशब्दादन्यस्याः सम्बन्धिनो धातोरिवर्णोवर्णस्य स्वरादौ स्यादौ परे तो य व इत्येतो स्याताम् । उन्न्यो । ग्रामण्यो । सुल्वः । खलप्वः । क्विबितिः किम् । परमो नियो परम-नियो । वृतरिति किम् । नियो कुलस्य । असुधिय इति किम सुधियः ॥५४॥ ..... - क्विबन्तेनैवेति - नन्वत्राधारणं कुतो लब्धमिति चेत् सत्यम् वृत्तिस्थधातो: केवलस्यासम्भवावृतिग्रहणेनैव क्विपि लब्धे क्विग्रहणमवधारणार्थम्, उन्न्यावित्यादि-उन्नयतः ग्राम नयति, सुलुन त खल पुनन्ति इति, . विविप गतिकारकङस्युक्तानाम्' इति न्यायेन स्याद्य त्पत्त: प्रागेव समासः । परमनियाविति - अत्र स्याद्यन्तेन समास: न तु क्विबन्तेनेति न भवति । असुधिय इति किमिदि-सुष्ठु ध्यायति दवाति वा सुधीः 'दियुद्ददृज्जग.' ।५।२।८३॥ इति क्विप् सुपूर्वस्यैव वर्जनादिह प्रध्यौ, आध्यो, उडयो ॥२८॥
हन्पुनवर्षाका भुवः ।।११५९॥ दनादिभिः सह या क्विम्वृतिस्तत्सम्बन्धिन एव भुवो धातोरुवर्णस्य