________________
(१७०)
देशाभावात् 'टौस्येत्' ।१।४।१९। इत्येत्वे पश्चादुत्वेन च अमुयेति ॥४८॥
बहुष्वेरी ।२।१।४९॥ वह वर्थवृत्त दरसो मः परस्य एत ई: स्यात् । अमी । अमीषु । एरिति किम् । अमूः स्त्रियः । मादित्येव । अमुके ॥४९॥
सम्भवे व्यभिचारे०' ११४ इति न्यायाद् 'बहुषु' इत्यदसो विशेषणं न तु मादित्यस्येत्याह - बह वर्थवृत्तेरिति-अमीति - अदम् + जस्, त्यदाधत्त्वादि, 'जस इ:' ।१।४।९। 'अवर्णस्ये.' ।१।४।६। इत्येत्वमनेनेत्त्वम् । अमोष्विति - 'एद् बहुस्भोसि' ।१।४।४। इत्येत्त्वमनेनेत्वम् । अमूः स्त्रिय इति. अदश्शब्दाज्जसि त्यदाद्यत्वादौ 'अत: आ:०' ।१।४।१॥ इत्याकारे 'मादुवर्णोनु' २।१।४७। इत्याकारस्योकारे 'सो रू:' ।१।१।७२। इति रूत्त्वम् 'रः पदान्ते विसर्गस्तयो:' ।१।३।५३। इति विसर्गः । अमुक इति • अत्र 'तन्मध्यपतित. स्तद्ग्रहणेन.' इति न्यायेन ग्रहणे-प्युकारेण व्यवधानाद त्वं न भवति ॥४९॥
घातोरिवर्णोवर्णस्येयुत् रखरे प्रत्यये ।२।११५॥ धातोरिवर्णोवर्णयोः स्वरादौ प्रत्यये परे यथासंख्यमियुवा स्याताम् । नियो । लुवो । अधीयते । लुलुवुः । प्रत्यये इति किम् । न्यर्थः । स्वर्थः । नयनम् । नायकः । इत्यादौ परत्वाद् गुणवृद्धी ॥५०॥
युवर्णस्येति कर्तव्ये यदिव!वर्णस्येति कृतं तद् विचित्रा सूत्रकृतिः' इति दर्शनार्थम् । ननु 'प्रत्ययाप्रत्यययो: प्रत्ययस्यैव ग्रहणम्' इति न्यायेन प्रत्ययस्यैव भविष्यति किं 'प्रत्यये' इत्येनेनेति चेत् सत्यं 'न्यायाः स्थविर यष्टिप्रायाः' इति न्यायानां प्रवत्तिरअविश्वसनीया इति । नियो लुवा - विति 'विवबन्त.नां धातुत्वं नोज्झन्ति शब्दत्वं च प्रतिपद्यन्त' इति न्या. यादत्रापीयुवो भवतः । ननु क्विबन्तानां शब्दत्वस्य प्राधान्याद् धातुत्वस्य गौणत्वात् गौणमुख्य:०' २२ इतिन्यायेन मुख्यस्यैव धातोः इयुवौ प्राप्नुतः इति चेत्सत्यं 'स्यादौ: वः' ।२।११५७। इति सूत्रस्यैतदपवादत्वाद् गौणस्यापीयुवादेशी