________________
(१७१)
भवतः । न्यर्थ इति - नियोऽर्थः" षष्ठीसमास: । नियो लुवा वित्यादावस्य विधे: सावकाशत्वात् करणं कारक इत्यादौ तु गुणवृद्धयोः सावकाशत्वात् नयन नायक इत्यादावुभयप्राप्तौ परत्वादगुणवद्धी । अघीयत इति अधिपू. त् ि 'इंङक अध्ययने' इति धात': वर्तमानाया अन्तेप्रत्यये 'अनतोऽन्त दास्मने' ।४।२।११४। इत्यद देशोनेनेयादेशश्च । स्त्र मिच्छतीति क्यनि विवपि यत्र क्विवन्तः स्त्रीशब्दस्तत्रानेनैवयादेशो भवति न तु 'स्त्रियाः ।२।११५४१, इत्यनेन तेन क्विबन्तस्य धातो: 'वाम्शास' ।२।११५५। इति विकल्पो बाध्यते नाम्नस्तु भवत्येव ।।५०॥
इणः ।२।१५१॥ इणो धातोः स्वरादी प्रत्यये परे इय् स्यात् । यापवादः । ईययुः । ईयुः ॥५१॥
. अत्र व्यभिचाराभावेपि 'धातो' इत्युत्तरार्थमनुवर्तते । 'योऽनेकस्वरस्य' ।२।२५६। इति विहितयत्त्वापवादः । यन्ति, यन्तु इत्यत्र तु 'हि.व. गोरप्विति व्यौ' ।४।३।१५॥ इति यत्वं परत्वाद्भवति • ननु द्वयोविध्योरन्यत्र सावकाशत्वाभावादिति चेन्न परत्वादित्यस्य विशेषविहितत्वेन प्रकृष्टत्वादित्यर्थः । ईयतुरिति-द्वित्वे कृते '
वात्प्राकृतं बलवत्' इति न्यायेन पूर्वमियादेशस्तदनन्तरं दीर्घः । अस्यापवादत्वादेतद्विषयकसर्वशास्त्रबाधे प्राप्ते 'पूर्वेपघादा अनन्तरान्विधीन्बाधन्ते नोत्तरान्' इति न्यायेन यत्त्वस्यैव बाधो भवति न तु गुणवृखयोस्तेन अयनम्, आयक इत्यादौ परत्वाद्गुणवृद्धी एव भवतः ॥५१॥
संयोगात् ।२।१५२॥ धातोरिवर्णोवर्णयोः संयोगात्परयोः स्वरादौ प्रत्यये परे इयुवी स्याताम् । यवक्रियो । कटप्र वो । शिश्रियुः ॥५२॥ ..धातुसम्बन्धिनः इवर्णस्योवर्णस्य च धातुसम्बन्धिन एव संयोगा