________________
(१६९)
अमुम्,अमू इति- अदस्शब्दादम् औकारश्च 'आ द्वरः'।२।११४१' 'लुगस्यादे० १२।१।११३। 'मोवर्णस्य' ।।१।४। 'समानादमोऽतः ।।४।४६। 'ऐदोत्स०' ।।२।१२। 'मादुवर्णोऽनु' ।२।१।४७। कार्यस्य विधेयतया प्राधान्यात् अनुशब्दस्य पश्चादयस्य तद्विशेषण व तत्पजातीय कार्यान्तगपेक्षयव पश्चानित्याहअनु पश्चात्कार्यान्तरेभ्य इति । अनुना सह कार्यान्तरेभ्य: इत्यस्य पूर्व सम् बन्धः तस्य च पश्चादर्यत्वात् 'प्रभूत्यन्चार्यः' ।२।२।७५३. इसी दिग्योगलक्षणा पञ्चमी पश्चादिस्यनेन पूर्व सम्बन्धे तु रिरिष्टात्' ।।८२॥ इति षष्ठी स्यात्, पश्चादित्यखण्डमव्ययं वा । अमुष्मै इत्यादि अन्वित्यस्यानुपादाने परस्वा न्नित्यत्वाद्वा पूर्व मुकारादेशेऽदन्तत्वाभावात् स्मैस्मिन्लादेशो न स्यातामिति । नन्वत्र 'अन्वित्यनुपादाने 'प्रागिनात् ।२।१।४८। इत्युत्तरसूत्रम्य नियमार्थता स्यान्नियमश्चेमिनादेशादेव प्रागुवर्णोऽन्येन तु पश्चादेवेति किमन्वित्यस्योपादानेनेति चेत्सत्यमे-वमपि नियमः स्यात् इनादेश: प्रत्ययादेशोऽतो ऽन्यस्मास्त्रत्ययादेशात् पश्चादेवोवर्णः प्रकृत्यादेशात्तु पूर्व मेव भवेदिति अमुया अमुयो. रित्यादो पूर्वमेवोत्त्वे आबन्सत्व'वरहेण 'टौस्येत्' ।१।४।१९। इत्यस्याप्रवर्तन अमुया अमुयोरित्यादिर्न सिध्ये दिति। ननु 'अमुष्मै' इत्यत्र 'डिस्यदिति' ११।४।२३। इत्योत्त्वं कथं न भवतीति चेत्सत्यम् 'अदिति' इत्यत्र पर्युदासन तेन साक्षात्स्व रादिर्जनात् पर्युदासस्य सहग्ग्राहित्वात् साक्षात्स्वरादिप्रत्यये एवैकारोकाराविति, अब तु स्थानितेन स्वगदित्वात्साक्षात्स्वरादित्वाभावान भवति कश्चित् । तयाऽदितोति विषयसप्तम्यां दकारादेत्युत्पद्यते यस्तद्विषयवर्जनादत्र मकारः तदादेशत्वेन दकार एव । अत एवं 'देद स् इत्यत्र ऐदिति न कृतमिति ॥४७॥ .. ..........
पागिनात् ।२।१।४८॥ अबसो मः परस्य वर्णस्येनादेशात् प्राक उवर्णः स्यात् । अमुना।" इनादिति किम् । अमुया ॥४८॥ . अन्वित्यस्यापवाद ऽयम् । इनादित्यत्र प्राशब्दस्य दिवशब्दत्वात् 'प्रभूत्यन्यार्थ' ७५॥ इति पञ्चमी। अदशब्दा टाप्रत्यये त्यदाद्यत्वे भवे उस्वे व 'ट: पुसि ना' 1१।४।२४। इति नादेशे नपुंसके तु 'अनाम्स्वरे' ।२।४४॥ इति नागमे च अमुनेति । व्यदायत्वे आपि अदन्तस्वाभावादिना