________________
अदद्रङ १४६ |
:
द्रावित 'सर्वादि विष्वग्देवा०' | ३|१|१२२ । इति उद्यन्तस्यादस इकारान्तत्वादवर्णान्तत्व-भावादप्राप्ते ऽयमारम्भः । द्वावत्र दकारौअतोविकल्पे सति चतूरूप्यं भवति । चत्वारि रूपाण्येव भेषजादिभ्यः | ७|२| १६४| इति स्वार्थे य ण अथवा चतूर्णा रूपाणां भावः " पति राजान्त० " | ७|१|३०| इत्यनेन व्यणि वेदं सिद्धम् तदाह
(१६८)
परत: केचिदिच्छन्ति केचिदिच्छन्ति पूर्वतः । उभयोः केचिदिच्छन्ति केचिदिच्छन्ति नोभयोः ॥
,
,
अदमुयङि इत्यादि - 'समुदाये प्रवृत्ता शब्दा अवयवेपि वर्तन्ते इति मात्र शब्दोऽधमात्रायामपि । इनि अदमुयङि ङत्यादावर्धमात्रिकस्यापि रस्य स्थाने एकम त्रिक: उकारादेशः सिद्धः अत्र वा वाशब्दो व्यवस्थितविभाषार्थः न तु विकल्पार्थः । यदि विकल्पार्थः स्यात्तदा प्रथममेव प्रयोगद्वयं स्यात् तावतैन विकल्पस्य चरितार्थत्वात् । साधनिका स्वित्थम् अदोञ्चतीति क्विप् "सर्वा"दिविष्वग्देवाडद्रिः" ३।२।१२२ । इति उद्यागमः, अवोऽनर्थायाम् ॥४२॥ ४६। इति नलोप: ‘अत्र:' | १|४| ६९ | इति नागमः, पदस्येत्यन्तलोपः 'युज चक्रु०' | २|१|७१ | इति नः ङ, अनेन परस्य पूर्वस्य उभयोश्च क्रमणे मकारे चातुरूप्यमिदम् । आगमस्यावयवत्वात्तद्ग्रहणेन ग्रहणाददसोऽद्रश्च दो मो भवति । न च द: इत्येकवचनान्तत्वादेकस्यैव दस्य मकारः प्राप्नोतीति वाच्यं दत्वजात्याश्रयणात् ॥४६॥
मादुवर्णोऽनु |२||४७
अदसो मः परस्य वर्णस्य उवर्णः स्यात् । अनु पश्चात्कार्यान्तरेभ्यः अम् । अमू । अमुमुयङ । अन्विति किम् । अनुष्मं । अमुष्मिन्
॥४७॥
ननु पञ्चम्या निर्देशाद्' उवर्णः प्रत्ययः कथं न भवतीति चेत्सत्यं अदो - मुमी | १ |२| ३५इति सूत्रनिर्देशाद् वर्णमात्रस्य स्थानित्वं प्राप्तमिति आसन्नत्वाद् मात्रिकस्य स्थाने मात्रिकः, द्विमात्रस्य द्विमस्वः, त्रिमात्रस्य त्रिमात्र आदेशो भवति । प्लुतोदाहरणं तु अमू ३ इति प्रश्ने च प्रतिपदम् |७|४|९८ । इति प्लुतः ।