________________
(१६७)
त्यन्ते । असुकः इति- परत्वान्नित्यत्व च्च "अम्बादे०" ।१।४।९०। इति बाधित्वा 'आ द्वरः" ।२।१।४२। “लुगस्या०" ।२।११११३। इत्यल्लोप: “सो रुः" ।।११७२। इति सस्य रुः । हे असुक । इत्यत्र "अदेतः स्यमोलुंक्" ।१।४। ४४। इति सिलुक् ॥४४॥
मोऽवर्णस्य ।२।१॥४५॥ अवर्णान्तस्य त्यवामदसो दो मः स्यात् । अमू नरौ स्त्रियो कुले वा अमी । अमूदृशः ( अवर्णस्येति किम् । अदः कुलम् ॥४५॥
"अवर्णस्य" इत्यदसो विशेषणं तेन तदन्तविधिः । अमू नराविति अदस्+औ 'आ द्वरः" ।२।११४१। “लुगस्यादेत्यददे" ।२।१।११३। 'मोवर्णस्य' १२।१॥४५॥ "ऐदोत्सन्ध्यक्षरै"।१२।१२। "मादुवर्णोनु" ।२।१।४७। आसन्नरवाददिव मात्रिकस्योकारस्य द्विमात्रिक ऊकारः। एव स्त्रियामपि नसके त "औरीः" ॥१॥४०५६। “अवर्णस्य०" ।१।२।६। शेष पूर्ववत् । अमीत्यत्र-त्यदाद्यत्वम् मत्त्वम् ‘जस इ.' ।।४।९। इतीत्त्वम् “अवर्णस्ये." ।१२।६। इत्येत्त्वम् 'बहुष्वेरी:'।२।११४९इतीत्वं च । अमूदृश इति असाविव दृश्यत इति त्यदाद्यन्यसमाना०" ५।१२१५२॥ इति टक् स्याद्यमावात्त्यदाद्यत्वाभावे "अन्यत्यदादेराः ।३।२।१५२ इत्याकार: पश्चादवर्णान्तत्वान्मकारादेशः । अदः कुलमिति"अनतो लुप्" ।१।४।५९। इति सेलुपि स्थानिवद्भावनिषेधात् व्यद द्यत्त्वाभावेऽवर्णान्तत्वाभावान्मकारादेशो न भवति । नच अद: कुलमिच्छतीत्य स्मन्वाक्ये अदस्शब्दात् नपुसकादमो लुपि “सो रु:” ।२।१।७२। इति रुत्त्वे "रोर्यः" ।१।३।२६। इति यत्त्वे "स्वरे वा" ॥१॥३॥२४॥ इति यलोपेऽवर्णान्तत्वान्मत्व स्यादिति वाच्यं पदान्तरापेक्षत्वेन बहिरङ्गस्य यलोपस्य तदनपेक्षत्वे. नान्तरङ्गे मवविधौ कर्तव्ये "असिद्ध बहिरङ्गः" इति लोपस्यासिद्धत्वान्मत्वाभावः ॥४५॥
वाद्रौ ।।१४६॥
अवसोऽद्रावन्ते सति बोर्वा स्यात् । अदमुयङ, अमुद्रघा अमुमुया,