________________
(१०)
. एते अन्तस्थाः स्युः ॥ १५ ॥
स्वस्य स्वस्य स्थानस्यान्ते तिष्ठन्तीति, स्थापास्नात्रः कः॥१४२॥ इति के ' इत्पुस | ४ | ३ |९४ । इत्याकारलोपे 'आत् | २४|१८| इत्यापि च अन्तस्था: । ष्ठां गतिनिवृतौ 'षः सोऽष्ट्येष्ठिवष्वष्क: २३९८ इतिस्ठा 'निमित्ताभावे नैमित्तिकस्याऽप्यभावः इति स्था । अन्त: पूर्वः । वर्गविशेषणमपि अन्तस्थाशब्दः स्वाभावात् स्त्रीलिङ्गो बहुवचनान्तश्च । रेफरहिता यलवा सानुनासिकनिरनुनासिक - भेदेन द्विविधा | द्विविध-भेदपरिग्रहायात्र बहुवचननिर्देशः ||१५||
अं अः -> क )( प-श-ष-साः शिट् । १ । १ । १६ । अ-क-पा उच्चारणार्थः, अनुस्वारविसग बन्त्र-गजकुम्भाकृती च aff --सारच शिटः स्युः ॥ १६ ॥
वज्रस्याऽऽकृतिरिवाऽऽकृतियस्य स गज कुम्भयोराकृतिरिवाऽऽकृति- र्यस्य स । ककारपकारी परदेशस्थावेवोच्चारणाथ पठ्येते न तु अनुस्वारवत् पूर्वदेशस्थौ । रेफादेशत्वात् कखपफसंनिधावेवानयोः प्रयोगादल्पविषयत्वम् अतः सत्यपि संज्ञिसामानाधिकरण्येऽल्पीयस्त्वज्ञापनाय शिडित्येकवचनेन निर्देशः कृतः । रेफादेशत्वादनयोर्वर्णेष्वपठितयोरपि वर्णत्वज्ञापनार्थं बहुवच नम् । न च वर्णादेशत्वेन लोपस्यापि वर्णत्वमाशङ्कनीयम् तस्याभावरुप वात्, न चाभावो भावस्पाऽऽग्रयो भवितुमर्हति अतिव्याप्तेः । अनयो रेफादेशत्वाद् व्यञ्जनसञ्ज्ञापि ज्ञातव्या ॥ १६ ॥
तुल्य स्थानास्यप्रयत्नः स्वः । १ । १ । १७ । स्थानं कण्ठादि ।
अष्टौ स्थानानि वर्णाना-मुरः कण्ठः शिरस्तथा ।
जिह, वामूलं च दन्ताच, नासिकौष्ठो च तालु च ॥ १ ॥
आस्ये प्रयत्नः आस्यप्रयत्नः स्पृष्टतादिः, तुल्यौ वर्णान्तरेण सदृशौ