________________
(१६०)
जिनदत्तस्य पुन: कथनाभा वादन्वादेशाभावात् 'त्यदामेतदे०' ।।१।१३३। इत्येनद देशो न भवति । अनु पश्चात्कथनम वादेश: कथितानुकथनमित यावत् । यूगं विनीता इति – अन्वादेशदर्शनार्थ वाक्यमिदं दर्शित न तूत्तरपदसम्बद्धमिदश् तेन तद्' इत्यस्य सपूर्वपरत्वाभावादुत्तरेण न विकल्पः । तदित्यय तस्मादित्यथें ॥३१॥
सपूर्वात् प्रथमान्ताव्दा ।२।१॥३२॥ विद्यमानपूर्वपदात् प्रथमान्तात् पदात् परयोयुष्मदस्मदोरन्वादेशे वस्नसादिर्वा स्यात् । यूयं विनीतास्तद्गुरवो वो मानयन्ति । तद . गुरवो युभमान मानयन्ति । वयं विनीतास्तद गुरवो नो मानयन्ति । तद्गुरवो-ऽस्मान् मानयन्ति । युवां सुशोलौ तज्ज्ञानं युवाभ्यां 'दीयते । आवां सुशीली तज्ज्ञानं नौ दीयते तज्ज्ञान-मावाभ्यां
दीयते ॥३२॥
पूर्वेण नित्यं प्राप्ते विकल्पार्थमिदम् । सह पूर्वेण वर्तते स सपूर्वः । तस्मात्सपूर्वात् 'सहस्तेन' ।३।१।२४। इति समासः, यद्वा सहशब्दो विद्यमानवचन:०, पूर्वशब्दो व्यवस्थार्थः सह विद्यमान पूर्व यस्मात् सःसपूर्वः तस्मात् 'एकार्थं च नेकं च ।३।१।२२। इति समासः 'सहस्य सोऽन्यार्थे ।३।२।१४३। इति सभावः । प्रथमान्तादेति - 'प्रत्ययः प्रकृत्यादेः' ।४।११५। इत्यन्तस्य लाभेप्यन्तग्रहणं न्यायानुवादकम् । गम्येऽप्यन्वादेशे भवति यथा ग्रामे कम्बलो वः स्वमथो, ग्रामे कम्बलो युष्माकं स्वमथो इत्यादि इत्यत्र 'यूयं धनवन्तः' इत्यादि साक्षात्पदोपादानाभावः केवलम् 'अथो' इति द्योतकमात्रोपादानमेवेत्यत्र गम्य एवान्वादेशः ॥३२॥
त्यदामेनदेतदो दितीयाटौस्यवृच्यन्ते ।२।१॥३३॥ त्यवादीनामेतदो द्वितीयायां टायामोसि च परेऽन्वादेशे एनद्