________________
(१५९)
पेक्षते । जनो मामरेक्षते । सर्वत्र मनसा चिन्तनं दृश्यर्थानामर्थः । दृश्यर्थे रिति किम् । जनो वो मन्यते । चिन्तायामिति किम् । जनो वः पश्यति ॥३०॥
दृशिना समानार्था: दृश्यर्थाः । अयं भावः अत्र 'इकिस्तिव स्व. रुपार्थे ' ।५।३।१३८। इति सूत्रण स्वरूपेऽथे वा कि: यन स्वरुपे तदा दृशेरर्थो दर्शनमालोचनं येषान्तै: व्यधिकरणबहुव्रीहिप्रसङ्गग्य प्रायेणानिष्टत्वाद्, यदाथै किस्तदा दृशिरों येषान्तेः । जनो युष्मानित्यादि-सर्ववावये सन्हश्येत्यादौ मनोवृत्तिरुपा चिन्ता दृश्यर्थः इत्यादेशप्रतिषेधः । आगत इतिआगच्छति स्मेति । 'गत्यार्थक०' ।।१।११। इति क्तप्रत्ययः, यभिरमि०' ।४।२।०५। इय॑न्त्यस्य लुक् । जनो वो मन्यत इति • नायं दृश्यथुः, श्यों नाम चक्षुःसाधने विज्ञाने वर्ततेतो न निषेध इति । जनो वः पश्यतीति - चक्षषा पश्यताति - अयं भाव: - चिन्तायामिति विषयसप्तमीयम् विषयार्थश्चानन्यत्र भाव: अतश्चक्षषा यत्र दर्शनं तत्र निषधाभाव दादेश इति ॥३०॥
-
नित्यमन्वादेशे १२१३१॥ किञ्चिद्विधातुं कथितस्य पुनरन्यद्विधातु कथनमन्वादेशः । तस्मिन् विषये पदात् परयोयुष्मदस्मदोर्वस्नसादिनित्यं स्यात् । यूयं विनीतास्तद्वो गुरवो मानयन्ति । वयं विनीतास्तन्नो गुरवो मानयन्ति । धनवांस्त्वमथो त्वा लोको मानयति । धनवानहमथोमा लोको मानयति ॥३१॥
ननु निषेधाधिकारे कथमिदं विधानसूत्रमिति चेत्सत्यं नित्यनिषे. धाधिकारे यन्नित्यग्रहणं तदेव वोधयति इदं विधानसूत्रमिति । न च नित्यग्रहणाभावे ‘पदाद्युग्वि०' ।२।१।२१। सूत्रे कथं विकल्प इति वाच्यं तम तव 'नवा इति कुर्यादिति । किञ्चिदित्यादि - पुन: शब्दोपादानात्तस्यैव यदि भवेत्तदैवान्वादेशः अन्यस्य कथने तु पुनश्शब्दार्थो न घटत इति तेन यद्यन्यस्य कथनं तदा नान्वादेशः तेन जिनदत्तमध्यापय एवं च गुरुदत्तमित्यत्र तस्यैव