________________
(१५७)
धिकरणयोः पदयोन पूर्व विशेष्यम-परं विशेषणमित्यसद्वद्भाव वकल्पो न भवति ॥२६॥
नान्यत् ।२।१।२७। युष्मदस्मद्भयाम् पूर्व जसन्तादन्यदामन्त्र्यं विशेष्यमामध्ये तद्विशेषणे परेऽसदिव न स्यात् । साधो सुविहित त्वा शरणम् प्रपद्ये । साधो सुविहित मा रक्ष ।२७।
जस् विशेष्यमित्यस्य प्रधानतया अन्यदिति सम्बध्यत इत्याह - जसन्तादन्यदिति । साधो सुविहित्यादि . अत्र सूविहित ! इत्यस्य 'असदिवामय।२।।२५॥ इत्यस स्वतापि 'सधो' इत्यस्मा सद्वत्वनिषेधात्तदाश्रितो त्वामादेशौ । ननु आमन्त्र्य पदं अभिमुखीभवेति क्रियान्तरमध्याहार्य वाक्यान्तरत्वादेवादेशाभाव सिद्धः किमनेनेति चेत्सत्यं अत एवाऽऽरम्भाद् वाक्य भेदो नाश्रीयते तेन साधो ! सुविहितेत्यादावेकवाक्यत्वादादेशा: सिद्धाः ॥२७॥
पादाद्योः ॥२१॥२८॥ नियतपरिमाणमात्राक्षरपिण्डः पादः । पदात् परयोः पादस्यादिस्थयो यमदस्मदो-नस्नसादिन स्यात् । वीरो विश्वेश्वरो देवो युष्माकं कुलदेवता ।। स एवनाथो भगवानस्माकं पापनाशनः ॥१॥ पादाद्योरिति किम् । पान्तु वो देशनाकाले, जैनेन्द्रा दशनांशवः । भवकूपपतज्जन्तु-जातोद्धरणरज्जवः ॥२॥॥२८॥
मात्राश्च अक्षराणि च मात्राक्षराणि नियतपरिमाणानि च तानि मात्राक्षराण नियतपरिमाणमात्राक्षराणि । पादाद्योरिति द्विवचनं युष्मदस्मदोरभिसम्बन्धार्थम्, 'पादादौ' इति ह्य च्यमाने आमन्त्र्याभिसम्बन्धः " स्यात् तदा .