________________
( १५६)
·
युष्मदस्मद्भयां पूर्व जसन्तमामन्यार्थ विशेष्यवाच्यामध्ये पदे sर्थात् तदिवशेषणे परेऽसदिव वा स्यात् । जिनाः शरण्या युष्मान् शरणं प्रपद्य े । जिनाः शरण्या वः शरणं प्रपद्ये । जिना शरण्या अस्मात् रक्षत । जिनाः शरण्या नो रक्षत । जसिति किम् । साधो सुविहित वोथो शरणं प्रपद्ये । साथै सुविहित नोथो रक्ष । विशेव्यमिति किम् । शरण्याः साधवो युष्मान् शरणम् प्रपद्ये । आम इति किम् । आचार्या युष्मान् श ण्याः शरणं प्रपद्य े । अर्थात् तद्विशेषणभूत इति किम् । आचार्या उपाध्याया युष्मान् शरणं प्रपद्ये ।२६।
तच्छायोगात् समुदायोपि तद् इत्यादि कृत्वा कर्मधारयकरणाद् 'नैकशेषः तच्चातच्च तस्तदो द्वन्द्वे 'न सर्वादिः | १|४ | १२ | इति निषेधात् 'आ द्व ेर:' । ।२।१।४१ । इत्यस्याप्रवृत्तिः । तदतद्विषयं विशेष्य तस्य व्यवच्छेदकं विशेषणम् यथा नीलमुत्पल नीलं रक्त व ते विषयेऽस्य तदत द्विषयमुल तद्विषयं तस्य व्यवच्छेदकं भेदान्तराद् बुद्ध व्यविर्तकं नीलमिति विशेषणम् । विशेष्यस्य विशेषणाकाङि क्षणः एकवाक्योपासत्वेन सामर्थ्यात् सन्निहितत्वात् 'विशेष्यत्वनिमित्तमेव 'आमन्त्र्य' इति विशेषणं विज्ञायतें इत्याह तद्विशेषण इति । पूर्वेण व्यवः तस्याप्यसद्वद् भावात् पूर्वेण नित्यं प्राप्ते विकल्प: । जिना इति व्यावर्त्य विशेष्यम्. शरण्या इति व्यावतकत्वेन विशेषणम् तदित्थम् रागादिजयज्जिना रागादिजयश्च क्षयोपशमभेदादद्विधा तत्रोपशमनरूपे जये कदाचित्पुनप्रादुभावात्कदाचिद्श रण्यत्वमपि शरण्यम् इति व्यवर्तकम् साधो ! सुविहित ! वो थो इत्यादि अत्र 'अस दिवामन्तयं ० ' २|१|२५| इति द्वयरपिपदयो २ सद्वत्त्वे प्राप्ने 'नान्यत्' | २|१|२७| इति साधो' इत्यस्यासद्वत्वनिषेधात् 'नित्यमन्वादेशे' २।१।३१ | इति नित्यं वस्तसो । शरण्या इत्यादि : - अत्र द्वयोरपि पदयोः 'असदिवा०' | २|१|२५| इति सूत्र ेणासद्वद्भावः । आचार्या युष्मानित्यादि - अत्रामन्त्रयविशेषणस्य व्यवहितत्वात्परत्वाभावादसवद्भाव विकल्पो न भवति । आचार्या उपाध्याया इत्यादि - भिन्ना
-