________________
( १५५)
. आमन्त्र्यार्थ पदं युष्मदस्मद्भ्यां पूर्वमसदिव स्यात् । जना युष्मान् पातुधः । साधू युवां पातु धर्मः । साधो त्वां पातु तपः । पूर्वमिति किम् । मयेतत्सवमाख्यातं युष्माकं मुनिपुङ्गवाः ॥ २५ ॥
।
1
आमन्त्रयते यः स्वेन धर्मेण प्रसिद्धो धर्मान्तरसम्बन्धं प्रत्यभिमुखी - क्रियते स आमन्त्र्यः यथा देवदत्ता देवदत्तत्वेन प्रसिद्ध धर्मान्तरसम्बन्ध प्रत्यभिमुखो क्रियते यथा देवदत्तो पठ भुङ्क्ष्वेति । अर्थे कार्यासम्भवादुपचारादामन्याभिधायि पदं विज्ञायत इति । असदिव- अविद्यमानमिव सति तस्मिन् यत्कार्यं तन्न भवति असति यत्तद्भवतीत्यर्थः । इवकरणाभावे प्रयोगनिवृत्तिः स्यात् । इवकरणात्तन्निमित्तककार्याभाव एव न तु प्रयोगाभाव: । 'ननु' "नित्यमन्वादेशे” | २|१|३१| इत्यत्र नित्यग्रहणादिह विकल्पः कथ न भवतीति चेत्सत्यम् "अन्वादेशे नित्य विधानादिति" इति भणनात् यत्रैव वस्नसादिविधानं तत्रैव विकल्पो न तु निषेध इति विकल्पो न भवति । अथवा यद्यत्र सूत्रे विकल्पः स्यात्तदा किमेतत्सूत्रकरणेन "पदाद्यग्विभक्त्यैक० " | २|१|२१| इत्यनेनैव वस्तसादोनां विकल्पस्य सिद्धत्वात् । जना ! युष्मान्पातु धर्मः इलादावामन्त्र्यस्यासत्त्वाद्वस्नसादयो न भवन्ति । युष्माकमित्यादि मुनिपुङ्गवा इति परस्य पदस्याद्वत्त्वे नियतपरिमाणमात्राक्षर पिण्डलक्षणपादस्याभावात् पादादित्वाभावात् "पादाद्यो: " | २|१|२८| इति पादादिलक्षणप्रतिषेधाभावाद जायेतेति - 'मुनिपुङ्गवा इति- 'सिहाद्यैः पूजायाम्' | ३|१|८९ | इति समासः । ननु चैत्र ! धर्मो वो थो रक्षतु, चैत्र ! धर्मो नोथो रक्षतु इत्यादी प्रत्यासत्तं व्यवहितस्य।सत्त्वादामन्त्र्यशब्दस्याव्यवहितपूर्वत्वाभावादसत्त्वाभावात् 'सपूर्वात्त्र०' | २|१|३२| इति विकल्प सङ्ग इति चेन्न मथुराया: पूर्व पाटलिपुत्रमित्यादो व्यवहितेपि पूर्वं शब्दस्य वृत्तेः व्यवहितस्यापि चैत्रशब्दस्याविद्यमानवद्भावात् चैत्र ! धर्मो वोथो रक्षतु, चैत्र! धर्मो नोथो रक्षतु" इत्यादी "सपूर्वात्प्रथ." | २|१|३२| इति विकल्प न भवति । अयं भावः यद्यत्यवहितस्यैव पूर्वस्यासद्वद्भावोऽभिप्रेत स्यात्तदा पूर्वग्रहणमकृत्वा "असदिवा मन्त्र्याद्" इत्येव क्रियेत, पूर्वस्यासद्वद्भावे वस्नस द्यभावः हेतु स तु इत्यमपि कृते सिध्यति एवमेतदानुगुण्येन उत्तरसूत्रमपि 'जस्विशेष्याद्' इत्येव क्रियेतेति ॥ २५ ॥
जस्विशेष्यं वामध्ये १२|१|२६|