________________
(१५४)
द्वित्व इति भावप्रत्ययान्तेन सङ्ख्या निर्दिश्यते सङ्ख्यायां च विभनिवर्ततेऽतो द्वित्व इति विभक्त रेव विशेषण न तु युष्मदस्मदोस्तयोः द्रव्यवृत्तित्वादत आह- द्विस्वविषययेति-॥२२॥
'डेडसा ते मे ।२।१।२३।
सभ्यां सह पदात् परयोयुष्मदस्मदोर्यथासंख्यं ते मे इत्येतो वा स्याताम् । एकवाक्ये । धर्मस्तेदीयते धर्मस्तुभ्यं दीयते । धम्मों मे बीयते । धर्मों मह्यं दीयते । धम्मस्ते स्वम् । धर्मस्तव स्वम् । धों मे स्वम् । धर्मो मम स्वम् ।।२३। . . तेमे इति लुप्तद्विवचनान्तं पदम् एवमुत्तरसूत्रप । ङसेत्येकवचनं स्थानिभ्याम देशाभ्यां च यथासङ्खयनिवृत्त्यर्थम् ॥२३॥
अमा त्वामा ।।१।२४।
अमा सह पदात् परयोयुष्मदस्मदोर्यथासंख्यं त्वामा इत्येतो वा स्याताम् । एकवाक्ये । धर्मस्त्वा पातु । धर्मस्त्वां पातु । धर्मो मा पातु । धर्मो मां पातु ॥२४॥
यद्यपि "अम्" अनेकप्रकारोऽस्ति तथाहि एक: "अतः स्यमोम्" ।१।४।५७। इति, द्वितीय: "अमव्ययीभावस्यातो." ।३।२॥३॥ इति तृतीयः आख्यातविभक्त : "अम्व् अम्" इति तयापि युष्मदस्मद्भ्यामन्यस्यासंभवाद् द्वितीयकवचनमेव गृह्यते ॥२४॥
.
अदिवामन्त्रयं पूर्वम् ।२।१।२५।
.