________________
(१५०)
इसा सह युष्मदस्मदोर्यथासंख्यं तवममा स्याताम् । तव । मम । प्रियतव । प्रियमम । प्राक्चाक इत्येव । तवक । ममक ।१५। :
ननु कथं तवता ममता, तवायितम् मम यिनम् ? इति चेत्सत्यम् एतानि स्याद्यन्तप्रतिरूपकाणि अव्यय नि ततः शब्दान्तरत्वात्सिद्धम् ॥१५॥
'अमौ मः।२।१॥१६॥ युष्मदस्मद्भ्याम परयोरम औ इत्येतयोम इति स्यात् । त्वाम । माम । आतत्वाम । अतिमाम । युवाम । आधाम । अतियु. वाम् । अत्यावाम ॥१६॥
- युष्मदस्मद्भ्यामिति विभक्ति-विपरिणामेन युष्मदस्मदोरित्यनुवर्तते परयोरिति तत्सम्बन्धिनोरन्यमम्बन्धिनोवेत्यर्थ एवमोरि । अम् औ इत्येतयोरिति- औश्च औरच आवी "स्याद वसख्येय." ॥३।१।११९। इत्येक शेष: सूत्रे विशेषनिर्देशाभाव स्पथमाद्वितीयाद्विवचनयोरुभयोरपि ग्रहणम् पश्चात् अम् च आवौ च अमौ तस्य "अमौ" इति षष्ठ्येकवचनस्य सौत्रत्वालोपः । एकशेषाभावे तु अम्साहचर्याद् द्वितीयाया एक औप्रत्ययस्य ग्रहणं स्य त् युष्मच्छब्दादम्प्रत्यये त्वादेशे "शेषे लुक् ।२।१।८। इति दस्य लुकि "समानादमतः" ॥१॥४॥४६॥ इत्यमोऽकारलुकि ; युष्मदस्मदो:" ।२।१६। इत्य त्वे च त्वामित्यादि सेत्स्यतीति कृतमम्ग्रहणेनेति चेत्सत्यं "असिद्ध बहिरङ्गमन्तरङ्ग" इति न्य यादन्तरङ्ग आत्त्वे कर्तव्ये बहिरङ्गस्य "समानादमोतः ।१।१॥४६॥ इत्यकारलोपस्यासिद्धत्वात् "युष्मदस्मदः" ।२।१६। इत्य त्वं न स्यादिति । म इति- अकार उच्चारणार्थः अकारमन्तरेण व्यञ्जनोच्चारण. मसुकरमिति । 'म्' इत्येकवर्णादेशत्वेपि “प्रत्ययस्य" ।७।४।१०८॥ इति न्यायादम: सर्वस्यापि भवति तेन व्यञ्जनादित्वात् "युष्मदस्मदौः" ।२।१६। इत्याकार: सिध्यति ॥१६॥
शसो नः ।२।११७॥ युष्मदस्मद्भ्यां परस्य शसो न इति स्यात् । युष्मान् । अस्मान् ।