________________
(१४८)
सिना सह युष्मदस्मदोर्यथासंख्यं त्वमहमो स्याताम् । तौ चाक्प्रसङ्गकः प्रागेव । त्वम् । अहम् । अतित्वम् । अत्यहम् । प्राक्चाक इति किम् । त्वकम् । अहकम् ।१२।
सिनेति - ननु साविति कृतेपि "दीर्घङ याब्' ।१।४।४। इति सेलुकि सर्वेऽपि प्रयोगास्तिध्ये रमिति । न च साविति कृते 'युष्मदस्मदा:' ।२।१।६। इति मकारस्यात्त्व स्पादिति वाच्यमादेश विधानसामर्थ्यान्न स्यादिति चेत्सत्यं 'युष्मदस्मदोः ।२।१।६। इत्यस्य प्रवृत्त्यभावेऽस्य से: शेषत्वात् 'मोर्वा ।२।१९। इति वालप: स्यात्पक्षे च सूत्रस्य चरितार्थता स्यादिति । अतिक्रान्तस्त्वां युवां युष्मान् इति अतित्वमेवमत्यहमिति । 'प्राप्यवपरि० ।३।१।४५१। इति समासः । त्वमयुवावादेशानां त्वां मां युवां आवामित्यादी सावकाशत्वात् त्वमहमादेशयोः अतिक्रान्तो युष्मानस्मान् वा अतित्वमत्यहमित्यत्र सावकाशत्वात् अतिक्रमो युवाम् 'अतिक्रान्त आवामतित्वमत्यहमित्यत्र 'स्पर्द्ध' ।७।४।११९। 'इति परत्वात् 'त्वमौ०' ।।१।११। 'मन्तस्य युवाको०' ।२।११। इति त्वम युवावादेशान्बाधित्वा त्व-महमादेशा एव भवन्ति । सिलुपि त्वं पुत्रोऽ स्य त्वत्पुत्र इत्यादौ न भवति । प्राक्चाक इति'प्राक्चाकः' इति वचनात्तु अन्तरङ्गमप्यकं बाधित्वा पूर्वं त्वमहमादेशी 'प्राक्चाकः' इति वचनाभावे निरपेक्षत्वेनान्तरङ्गत्वात् 'युष्मदस्मदो.' ।७।३।३०। इति कुत्सिताद्यर्थे पूर्वमकि 'तन्मध्यपतितस्तद्ग्रहणेन गृह्यते' इति न्यायेन साकोरप्यादेशस्यात्तदा ऽश्रुतिनं स्यात् । अत्रेदं चिन्त्यते – 'तन्ममध्यपतितस्तद्ग्रहणेन गृह्यते' इति न्यायस्य ज्ञापक तु 'प्राक्चाकः' इति ववनं तथाहि युष्मदस्मदोरक्सहितयोरादेशवारणार्थ 'प्राकचाकः' इति भणितम् तत्तु अकि सति अक्सहितयोयुष्मदस्मदोरकरहितयोयुष्मदस्मद्भिन त्वेन ग्रहणात्स्वत एवाक्सहितयुष्मदस्मद स्त्वमहमादेशावप्राप्त विति व्यर्थ 'प्राकचाकः' इति वचनम् । व्यर्थं सन्न्यायमिमं ज्ञापयति । न्याये ज्ञापिते चासहित. योरादेशवारणार्थं प्राक्चाक:' इति कथन सार्थकमेव । अनु 'अहंकार: 'अहंप्रत्ययग्राह्य आत्मा' इत्यादौ सेल पि उत्तरपदे परे 'त्वमौ०' ।।१।११। इति मादेशेन भाव्यमिति चेत्सत्यं 'ऊर्णाह-शुभमो युस्।७।२।१७। इति वचनादन्य एवाहं शब्दः इति न दोषः । पाणिन्यादयस्तु त्वां मां वाऽऽचष्ट इति- गौ त्वमा. देशे वृद्धौ क्विपि मन्तयोरेव त्वाऽऽहादेश विधानात् सौ त्वाम् माम् इति धातोरेव वृद्धिरिति मते त्वम् मम् इत्येव च भवताति मन्यन्ते ते हि 'तुभ्य