________________
(१४७)
प्रत्ययोत्तरपदयोश्चेति ननु स्यादावित्येव सिद्ध' प्रत्ययोत्तरपदग्रहणमनर्थकम् न च त्वदीयः पुत्रः इत्यादौ परत्वानित्वाद्वा ऐका |३|२८| इति विभक्त र्लोपः स्याद् लोपे च कृते ' प्रत्ययले पेपि प्रत्ययलक्षणं कार्य विज्ञायते इति न्यायेन स्थानिवद्भावस्य निषेधा सार्थकमिति याच्यं 'अमिद्ध ं बहिरङ्गमन्तरङगे' इति न्यायान्नित्यादप्यन्तरङ्गस्य बलीयस्वात् विभक्तिमाश्रित्य वर्तमानयोरत्वमादेशयोः कर्तव्ययोः प्रवृतिप्रत्ययपूर्वोत्तरप द श्रितत्वादैकार्थ्यस्य बहिरङ गत्वात्तदाश्रितलोपस्यापि बहिरङ गत्वाद् बहिरङ गस्य कृताकृत सङि गत्वेन नित्यस्यापि लोपस्यासिद्धत्वादिति चेत्सत्यमिदमेव प्रत्ययोत्तरपदग्रहण व्यर्थं सत् 'लुवन्न रङगेभ्य' इति न्यायं ज्ञापयति तेन तद्, यद् इत्यादावन्तरङ गत्यदाद्यत्वादिकार्यात्पूर्वमेव विभक्तेर्लोपे स्थानिवद्भावनिषेधात्त्यदाद्यत्वादि न भवति । प्रत्ययग्रहणेनैव सिद्ध स्यादावित्युत्तरार्थमनुवर्तते । एकार्थवृत्त्योरिति एकार्थ वृत्तित्वेन युष्मदस्मदोविशे
हि न भवति अतिक्रान्त युष्मान् अस्मान्वा अतियुष्माम् अत्यस्याम् । अतित्वमित्यादि - त्वां मां वाऽतिक्रान्तासु इति कार्यमन्यथा युष्मदस्मदोरेकार्थ वित्त्वाभावान्नादेशौस्याताम् । त्वमादेशयो र कान्तत्वेन युष्मदस्म
-
घां णिचि क्विपि तल्लोपे च टाङ यं सियः | २ | १|७ | इति यत्वे 'व्य यि' इत्यादि सिद्धम् । त्वदय इत्यादि - तवायं ममायमिति 'दानीयः ।६।३।३२। इतीयप्रत्ययः । त्वत्पुत्र इति तव पुत्रः इति तत्पुरुषो बहुव्रीहिर्वा अत्र नवीनं किञ्चित्प्रस्तुयते त्वां मां वाऽऽचष्ट इति त्वदयति मदयतीत्यत्र 'परान्नित्यम्' ५२ इति न्यायात् ' त्रन्त्यस्वरादेः ' | ७|४|४३| इति सूत्ररेणान्त् यस्वरादिलोपात्प्रागेव त्वमादेशौ । पश्चादपि 'लोपात्स्वरादेश:' इति न्यायात् 'लु स्वादेत्यपदे' २।१।११३ । इति प्रवर्तते न त्वन्त्यस्वरादिलोपः तत्पश्चादपि 'नैकस्वरस्य' ।७|४|४४॥ इति निषेध | दन्त्यस्वरादिलोपो न भवति । अधातु'वाच्च णिति' | ४ | ३ |५० इति वृद्धिरपि न भवति । अधियुष्मदित्यादि - त्वय्यधि, मय्यधि इति 'विभक्तिसमीप ० ' | ३|१|३९| इति समासः 'प्रथमोक्त' प्राक्' | | १|१४८ । इति अधिशब्दस्य पूर्वनिपातः 'अनतो लुप्' |३२|६| इति सेर्लोपे 'लुप्य्य्वल्लेनद' | ७|४|११२ । इति स्थानिवत्त्वनिषेधात्त्वमादेशो न भवतः मन्तस्येत्यनुवृत्त स्त्वकं कर्ताऽस्य त्वत्कर्तृकः इत्यत्राक् ति भवति ।'
॥११॥
-
त्वमहं सिमा प्राक्चाकः | २|१|१२|